SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये तुषारा'। इति 'म कर्मधारयान्मत्वीय' इति निषेषादिनिप्रत्ययपक्षोऽपि जघन्य एव । सेनायां समवेताः सैन्याः । 'सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ले इत्यमरः। 'सेनायां वा' इति ण्यप्रत्ययः। तेषां परिभोगेण कावेरी नाम सरितं सरितां पत्युः समुद्रस्य शङ्कनीयां न विश्वसनीयामिवाकरोत् । पत्न्यां संभोगलिंगदर्शनाद्भर्तुरविश्वासो भवतीति भावः ॥ ४५ ॥ अन्वयः-सः, गजदानसुगन्धिना, सैन्यपरिमोगेण, कावेरीम्, सरिताम्, पत्युः, शङ्कनीयाम्, इव, अकरोत् ।। वान्य०-तेन कावेरी शङ्कनीया इव अक्रियत । व्याख्या-सः -रघुः । गजानां-हस्तिनां यद्दानं मदः इति गजदानं, तेन सुगन्धिः सुरभितः इति गजदानसुगन्धिः, तेन । सेनायां समवेताः सैन्याः सैनिकाः तेषां परिभोगः उपभोगः इति सैन्यपरिभोगः, तेन । कावेरीम् तदाख्यां नदीम् । सरिताम्=नदीनाम्, पत्युः = स्वामिनः, समुद्रस्येत्यर्थः। शङ्कनोयाम् = अविश्वसनीयाम् । इव = यथा । अकरोत् = चकार । समा० -- सुष्ठ गन्धोऽस्यास्तीति सुगन्धिः, गजानां दानं गजदानम्, गजदानेन सुगन्धिः गजदानसुगन्धिः, तेन गजदानसुगन्धिना। सेनायां समवेताः सैन्याः, सैन्यानां परिभोगः सैन्यपरिभोगः, तेन सैन्यपरिमोगेण । शङ्कितुं योग्या शङ्कनीया, तां शङ्कनीयाम् । __ अभि०-गजानां मदेन शोभनगन्धवती कावेरी तथा जाता यथा समुद्रस्य परपुरुषोपभुक्तवाविश्वसनीयाऽभूत् । हिन्दी-रघु के सेनागजों के मद की सुगन्धि तथा सैनिकों के स्नान आदि से कलुषित कावेरी समुद्र के लिए परपुरुषोपभुक्त स्त्री के समान अविश्वसनोय-सी हो गई ।। ४५ ॥ बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः । मारीचोद्भ्रान्तहारीता मलयागुरुपत्यकाः ॥ १६ ॥ सञ्जीवनी-विजिगीषोविजेतुमिच्छोर्गताध्वनस्तस्य रघोर्बलैः सैन्यः । 'बलं शक्तिर्बलं सैन्यम्' इति यादवः। मारीचेषु मरीचवनेषूद्धान्ताः परिभ्रान्ता हारीताः पक्षि विशेषा यासु ताः । तेषां विशेषा हरीतो मद्गुः कारण्डवः प्लवः' इत्यमरः । मलयाद्रेशपत्यका आसन्नभूमयः। 'उपत्यकानेरासन्ना भूमिरूवमधित्यका' इत्यमरः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy