SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये 8 = स्वजन द्विरदगामिवा = गजगामिनेत्यर्थः तेन = रघुणा । समम् = युगपत्, एव, द्वयम् द्वितयम्, समाक्रान्तम् = समधिष्ठितम् । किन्तत् ? पितुरागतं पित्र्यं = |कादधिगतं सिंहासनं = राजासनम् । अखिलम् = सम्पूर्ण, प्ररीणां = शत्रूणां मण्डलं == राष्ट्रमण्डलं च ! समा० - द्वौ रदौ यस्य सः द्विरदः, द्विरद इव गच्छतीति द्वि-रदेन गच्छतीति वा द्विरदगामी, तेन द्विरदगामिना । परीणां मण्डलम् अरिमण्डलम् । अभिः- यदेव गजगमनशीलेन रघुणा सिंहासनं प्राप्त तदेव सकलशत्रुसमूहोsपि तेन पदाक्रान्तः कृतः । हिन्दी ---- हाथी की तरह मस्त चलनेवाले रघुने पिता से प्राप्त सिंहासन को तथा सम्पूर्ण शत्रुमण्डल को एक साथ ही पदाकान्त किया || ४ | बायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ ५ ॥ सञ्जीवनी - अत्र रघोस्तेजोविशेषेण स्वयं संनिहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेचते । पद्मा लक्ष्मीः | 'लक्ष्मीः पद्मालया पद्मा कमला श्रीहरिप्रिया' इत्यमरः । सा स्वयमदृश्या किल । किलेति संभावनायाम् । सती छायामण्डल - लक्ष्ये कान्तिपुञ्जानुमेयेन । न तु स्वरूपतो दृश्येन । छायामण्डलमित्यनेनानातपज्ञानं लक्ष्यते । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्युभयत्राप्यमरः । पद्मातपत्रेण पद्ममेवातपत्रं तेन करणभूतेन साम्राज्यदीक्षितं साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे सिषेवे । श्रन्यथा कथमेतादृशी कान्तिसंपत्तिरिति भावः ॥ ५ ॥ अन्वयः - पद्मा, स्वयम् महश्या, किल, छायामंडललक्ष्येण, पद्मातपत्रेण, साम्राज्यदीक्षितम्, तं, भेजे । वाळ्य० - पद्मया, स्वयम् अदृश्यया, किल, साम्राज्यदीक्षितः, सः भेजे । व्याख्या - पद्मा= लक्ष्मीः । स्वयम् = प्रात्मना, अदृश्या=अलक्ष्या, किलेतिसम्भावनायाम् । छायाया: = मनातपस्य यन्मण्डलं = चक्र, तेन लक्ष्येणानुमेयेन । पद्मं=कमलमेवातपत्रं = छत्रं तेन छायामण्डललक्ष्येण करणेन । साम्राज्ये = सम्राट्कर्मणि दीक्षितम् = प्रभिषिक्तम् तम् = रघुम् | भेजे = सिषेवे | >
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy