SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ महाकविकालिदास कृत श्री रघुवंश महाकाव्य चतुर्थ सर्ग स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ १॥ सञ्जीविनी-स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम् । पुरोहितादित्वाद्यक् । प्रतिपद्य प्राप्य । दिनान्ते सायंकाले सवित्रा सूर्येण निहितं तेजः प्रतिपद्य हुताशनोऽग्निरिव । अधिकं बभौ । 'सौरं तेजः सायमग्निं संक्रमते । प्रादित्यो वा अस्तं यन्नग्निमनुप्रविशति । 'अग्नि वा प्रादित्यः सायं प्रविशति' इत्यादिश्रुतिः प्रमाणम् ॥ १॥ अन्वयः-सः, गुरुणा, दत्तम्, राज्यम्, प्रतिपद्य, दिनान्ते, सवित्रा, निहितम् , तेजः, 'प्रतिपद्य' हुताशनः, इव, अधिकम्, बभौ । वाच्य - तेन हुताशनेन इव अधिकं बभे। व्याख्या-स: रघुः। गुरुणा-पित्रा दिलीपेन, दत्तम्-विसृष्टम्, राज्यम् = राष्ट्रमण्डलम्, प्रतिपद्य प्राप्य । दिनस्य = दिवसस्यान्तस्तस्मिन्, दिनान्ते = सायंकाले । सवित्रा = सूर्येण, निहितं स्थापितं, तेज: दीसिं, 'प्रतिपद्य' हुताशनः = हुतं दत्तमश्नातीति सः, वह्निः, इव = यथा, अधिकम् = प्रत्यन्तम्, बभी= शुशुभे । समा०-राज्ञः कर्म भावो वा राज्यम्, तत् राज्यम् । दिनस्य अन्त: दिनान्तः; तस्मिन् दिनान्ते । हुतमशनं यस्य सः हुताशनः । अभि०-स्वजनकेन दिलीपेन दत्त राष्ट्रमण्डलं प्राप्य रघुस्तथा शोभामाप यथा सायङ्काले सूर्येऽस्तंगते वह्निरतिशयं प्रकाशते । हिन्दी०-रघु अपने पिता द्वारा दिये गये राज्य को पाकर इस प्रकार अधिक सुशोभित हुए जिस प्रकार सायङ्काल के समय सूर्य द्वारा निहित तेज को पाकर अग्नि की शोभा अधिक हो जाती है ॥१॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy