SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः यथा = येन प्रकारेण । इमम् = एतम् । वृत्तान्तम् =वार्ताम् । तव भवतः, सन्देशम् = वाचिकं सन्देशवचनमिति यावत्, हरति = नयति इति सन्देशहरः 'सन्देशवाग्वाचिकं स्याद्' इत्यमरः, तस्मात् सन्देशहरात् । एव इति अवधारणेऽर्थेऽव्ययम् । लोकानां जनानाम् , ईशः = स्वामी तत्सम्बुद्धौ । तथा = तेनैव प्रकारेण, विधीयताम् = क्रियताम् । समा०-सदः (द्वितीया ) गतः सदोगतः । त्रीणि लोचनानि यस्य सः त्रिलोचनः, एकश्चासी अशश्च एकांशः, त्रिलोचनस्येकांशः त्रिलोचनेकांशः, त्रिलोचनैकांशस्य भावः त्रिलोचनेकांशता, तया त्रिलोचनैकांशतया । दुःखेनासाद्यत इति दुरासदः । हरतीति हरः, सन्देशस्य हरः सन्देशहरः, तस्मात् सन्देशहरात् । लोकानामीशः लोकेशः, तत्सम्बुद्धौ हे लोकेश। अमि-किच, हे इन्द्र ! मम पिता यज्ञमण्डपे स्थित आस्ते, स चावयोवृत्तं यथा तव सन्देशहरादेव शृणुयात् तथा त्वया विधेयम् । हिन्दी-और हे इन्द्र ! शिवांश होने के कारण दुरासद मेरे पिता इस समय यश मण्डप में स्थित हैं। वे हमारे इस वृत्तान्त को आपके दूत के द्वारा ही जिस प्रकार सुन सके, ऐसा प्रबन्ध करें ॥६६॥ तथेति कामं प्रतिशुश्रुवान् रघोर्यथागतं मातलिसारथिर्ययो । नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥ ६ ॥ संजीविनी-मातलिसारथिरिन्द्रो रघोः सम्बन्धिनं कामं मनोरथं तथेति तथास्त्विति प्रतिशुश्रुवान् 'भाषायां सदवसश्रुवः' इति क्वसुप्रत्ययः। यथागतं ययौ। सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलामेऽप्यश्वनाशान्नातीव तुष्टः सन् । नञर्यस्य नशब्दस्य सुप्सुपेति समासः। नृपस्य सदोगृहं प्रति न्यवर्तत ॥ ६७ ॥ अन्वय:-मातलिसारथिः, रघोः, कामम् , तथा इति, प्रतिशुश्रुवान् यथाऽऽगतम् , ययौ, सुदक्षिणसूनः अपि, नातिप्रमनाः 'सन्' नृपस्य, सदोगृहम् , न्यवर्तत । ___वाच्य०-मातलिसारथिना, रघोः, कामः, तथा इति, प्रतिश्रुतम् , यथाऽऽगतम् यये, सुदक्षिणासू नुना, अपि नातिप्रमनसा नृपस्य सदोगृहम् न्यवर्त्यत। ___ व्याख्या-मातलि:=तन्नामकः सारथिः सूतः यस्यासौ मातलिसारथिः, इन्द्रः इत्यर्थः । रघोः= दिलीपसूनोः। कामम् = मनोरथम् । तथा= तथास्तु, इति = एवम् । प्रतिशुश्रुवान् = प्रतिज्ञातवान् । येनायातस्तेनैव मार्गण, ययौ = जगाम । सुदक्षिणायाः = दिलीपपल्याः,स नु:पुत्रः इति सुदक्षिणासूनुः, अपि, प्रहृष्टम् = अति प्रसन्नन् , मनः चित्तम् यस्यासौ प्रमनाः, अत्यन्तम् = अधिकम् प्रमनाः इति अतिप्रमनाः, न अतिप्रमनाः इति नातिप्रमनाः सन्। नन्मनुष्यान् पातिरक्षति इति नृपः राजा, तस्य दिलीपस्येत्यर्थः। सदसः=समायाः, गृहम् = भवनम् । न्यवर्तत=निवृत्तोऽभूत्। समा०-मातलिः सारथिर्यस्य सः मातलिसारथिः । प्रतिशुश्राव इति प्रतिशुश्रवान् । आगतमनतिक्रम्य यथागतम् । सुदक्षिणायाः सूनुः सुदक्षिणासू नुः । प्रहृष्टं मनः यस्य सः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy