SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः । अलं प्रयत्नेन तवान मा निधाः पदं पदव्यां सगरस्य सन्ततः ॥ ५० ॥ सब्जीविनी-यतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिया कपिलमुनितुल्येन मयापहारितोऽपहृतः। अपहारित इति स्वाथें णिच् । तवात्राश्वे प्रयत्नेनालम् । प्रयत्नं मा कार्षीरित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्ततीया । सगरस्य राशः संततेः संतानस्य पदव्यां पदं मा निधाः न निधेहि । निपूर्वाद्धाधातोर्लङ । 'न मायोगे' इत्यडागमप्रतिषेधः । महदास्कन्दनं ते विनाशमूलं भवेदिति भावः ॥ ५० ॥ अन्वयः-अतः त्वदीयस्य, पितुः, अयम् , अश्वः, कपिलानुकारिणा मया अपहारितः, तव अत्र, प्रयत्नेन, अलं,सागरस्य सन्ततेः, पदव्यां, पदंमा निधाः। वाच्य०-अमुमश्वं कपिलानुकार्यहमपहृतवान् पदं त्वया मा निधायि । व्याख्या-अतः-एतस्मात् कारणात् । तवायं त्वदीयस्तस्य = भवदीयस्य, पितुः = जनकस्य, दिलीपस्येत्यर्थः। अयम् एष शततमः, अश्वः=घोटकः। कपिलमनुकतु शोलमस्येति कपिलानुकारी, तेन कपिलानुकारिणा-कपिलमुनितुल्येन, मया = इन्द्रेण । अपहारित:=चोरितः। तवरघोः। अत्र =अस्मिन्नश्वे। प्रयत्नेन प्रयासेन। अलं-साध्यं नास्ति । सगरस्य = सगरनाम्नो नृपस्य। सन्ततेः= सन्तानस्य, पदव्यांमागें। पदं = चरणं, मा= नहि, निधाः-: निधेहि। ___ समा०-कपिलमनुकतुं शीलमस्येति कपिलानुकारी, तेन कपिलानुकारिणा । तब अयं स्वदीयः, तस्य त्वदीयस्य । अभि०-निजनामरक्षणार्थ तव पितुर यमश्वः कपिलतुल्येन मयापहृतः, अतः तवाश्वग्रहएप्रयासो व्यर्थः, अन्यथा सगरपुत्राणामिव त्वमपि विनंक्ष्यसि । हिन्दी-इसलिये तुम्हारे पिता के इस घोड़े को कपिल मुनि की तरह मैंने हर लिया है, तुम्हारा इसे छुड़ाने का प्रयत्न व्यर्थ है। अतः तुम सगरपुत्रों के मार्ग का अनुसरण मत करो, नहीं तो उनके समान तुम भी नष्ट हो जाओगे ॥ ५० ॥ ततः प्रहस्यापमयः पुरन्दरं पुनर्बभाषे तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघु कृती भवान् ॥५१॥ सञ्जीविनी-ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा । अपभयो निीकः सन्। पुनः पुरंदरं बभाषे । किमिति-हे देवेन्द्र ! यद्यषोऽश्वमोचनरूपस्ते तव सों निश्चयः । 'सर्गः स्वभावनिमोक्षनिश्चयाध्यायसृष्टिषु' इत्यमरः। तहिं शस्त्रं गृहाण। भवान्रघु मामनिर्जित्य । कृतकृत्यो न खलु । "इष्टादिभ्यश्च" इतोनिप्रत्ययः । रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम् ॥५१॥ अन्वयः-अतः तुरगस्य, रक्षिता, प्रहस्य, अपमयः, "सन्", पुनः पुरन्दरम् बमाणे, यदि एष, ते सर्गः, "तर्हि" शस्त्रम्, गृहाण, भवान् , रघुम् , अनिर्जित्य, कृती, न, खलु।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy