SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ - तृतीयः सर्गः हिन्दी-तीनों लोकों के स्वामी दिव्यदृष्टिवाले आपको चाहिये कि जो संसार में यज्ञादि सत्कर्म के विघातक हैं, उन्हें दण्ड दें। फिर धर्म रक्षक होकर यदि स्वयं आप हो यज्ञ में विघ्न डालेंगे तो यशादि अनुष्ठान लुप्त हो जायगा ॥ ४५ ॥ तदङ्गमम्यं मघवन्महाक्रतोरमुं तुरङ्ग प्रतिमोक्तुमर्हसि । पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ।।४६।। सञ्जीविनी-हे मघवन् ! तत्तस्मात्कारणान्महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमङ्गं साधनममुं तुरङ्गं प्रतिमोक्तुं प्रतिदातुमर्हसि । तथाहि श्रुतेर्वेदस्य पथो दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसा पद्धति मार्ग नाददते न स्वीकुर्वते । असन्मार्ग नावलम्बन्त इत्यर्थः । 'मलीमसं तु मलिनं कच्चरं मलदूषितम्' इत्यमरः ॥ अन्वयः-"हे" मघवन् ! तद् , महाक्रतोः, अग्रूयम् , अङ्गम् , अमुं, तुरंगं, प्रतिमोक्नुम् , अर्हसि “तथाहि" श्रुतेः पथः, दर्शयितारः ईश्वराः, मलीमसा, पद्धति, न, आददते । वाच्य०-त्वया अझते, पथो दर्शयितृभिः ईश्वरैः मलोमसा पद्धति दीयते । व्याख्या-"हे" मघवन् ! =हे इन्द्र ! तद् =तस्मात् कारणात् । महांश्चासौ क्रतुः महाकर स्तस्य महाकतो:= अश्वमेधस्य । अग्रे भवम् अग्रथं प्रधानं श्रेष्ठम् , अङ्गम् = अवयवम् , मुम् = एतं, तुरङ्ग = घोटकं । प्रतिमोक्तु = प्रतिदातुम् । अर्हसि = योग्योऽसि । “तथाहि" श्रुतेः= वेदस्य, पथः =मार्गस्य । दर्शयितारः= प्रदर्शकाः। ईशितुं शीलं येषान्ते ईश्वराः= महान्तो जनाः । मलीमसा=मलिना, पद्धति = मार्ग । न = नहि, आददते = स्वीकुर्वते। समा०-महांश्चाप्तौ क्रतुश्च महाक्रतुः, तस्य महाकतोः। अग्रे भवम् अम्यम् , तत् । अभि०-अतो हे इन्द्र ! अश्वमेधयशीयममुं तुरङ्गं मह्यं दत्वा धर्मचारिणो मे पितुः यशरक्षां तु करोतु भवान् , भवादृशा ईदृशी पद्धतिं न स्वीकुर्वते। हिन्दी-इसीलिये हे इन्द्र ! आप मेरे पिता के महाक्रतु अश्वमेध यज्ञ के प्रधान अंग इस घोड़े को छोड़ दीजिये, क्योंकि वेद का मार्ग दिखानेवाले महापुरुष ऐसा निन्दनीय कार्य कभी नहीं करते ॥ ४६ ॥ इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् । निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवमुत्तरम् ॥ ४७ ॥ संजीविनी-इति रघुणा समीरितं प्रगल्भं वचो निशम्याकर्ण्य दिवौकसः स्वर्गौकसः दिवं स्वर्गेऽन्तरिक्षे च' इति विश्वः । तेषामधिपतिदेवेन्द्रो रघुप्रभावात्सविस्मयः सन् रथं निवर्तयाभास, उत्तरं प्रतिवक्तुं प्रचक्रमे च ॥ ४७ ॥ __ अन्वयः-इति, रघुणा, समीरितं, प्रगल्म, वचः, निशम्य, दिवौकसाम् अधिपतिः, सविस्मयः, "सन्" रथं, निवर्त्तयामास, उत्तरं प्रतिवक्तुं प्रचक्रमे च । वाच्य-दिवौकसामधिपतिना सविस्मयेन “सता" रयो निवर्तयाञ्चके।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy