SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः अमि०-राजा दिलीपः रत्नभां पृथ्वोमिव, स्त्रमध्यस्थितवह्नियुतां शमीमिव, गुप्रजला सरस्वतीनदीमिव सगा सुदक्षिणां मेने । हिन्दी-राजा दिलीप, गर्भवती सुदक्षिणा को रत्नगर्भा पृथिवी के समान, अपने भीतर अग्नि को रखनेवाले शमी वृक्ष के समान तथा भोतर ही भीतर जल बहानेवाली सरस्वती नदी के समान समझते थे ॥ ९॥ प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसम्पदाम् । यथाक्रमं पुंसवनादिकाः क्रिया पृतेश्च धीरः सदृशीय॑धत्त सः ॥१०॥ सीविनी-धोरः स राजा प्रियायामनुरागस्य स्नेहस्य । मनसः समुन्नतेरौदार्यस्य । भुजेन भुजबलेन करेणैवाजितानाम् । न तु वाणिज्यादिना । दिगन्तेषु संपदाम् । धृतेः पुत्रो मे भविष्यतीति संतोषस्य च । 'धृतियोगान्तरे धैर्य धारणाध्वरतुष्टिषु' इति विश्वः । सदृशीरनुरूपाः । पुमान्सूयतेऽनेनेति पुंसवनम् । तदादिर्यासान्ताः क्रिया यथाक्रम क्रममनतिक्रम्य व्यधत्त कृतवान् । आदिशब्देनानवलोमनसीमन्तोन्नयने गृपते । अत्र मासि द्वितीये तृतीये वा पुंसवनम् । यदाह पारस्कर:--'पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्' इति । 'चतुर्थेऽनवलोभनम्' इत्याश्वलायनः । 'षष्ठेऽष्टमे वा सीमन्तोन्नयनम्' इति याज्ञवल्क्यः ॥१०॥ __ अन्वयः-धीरः, सः, प्रियानुरागस्य, मनःसमुनतेः, भुजार्जितानां दिगन्तसम्पदां, च, धृतेः, च, सदशीः, पुंसावनादिकाः, क्रियाः यथाक्रम, व्यधत्त । वाच्य०-धीरेण, तेन, सदृश्यः, क्रिया व्यधीयन्त । व्याख्या-धीरः-प्राशः "धीरो मनीषो शः प्राशः संख्यावान् पण्डितः कविः" इत्यमरः । पण्डित इत्यर्थः, सः= राजा दिलीपः, प्रियायां सुदक्षिणायाम् , अनुरामः = स्नेहः, तस्य प्रियानुरागस्य, मनसः=चित्तस्य, समुन्नतिः-औदार्यम् , इति तस्या मनःसमुन्नतेः, भुजाभ्यां स्वबाहुभ्याम् , अजिंता:=प्राप्ताः, तासां मुजार्जितानाम् । दिशामन्ता दिगन्तास्तेषु दिगन्तेषु - काष्ठावसानेषु । सम्पदः-सम्पत्तयः तासां, दिगन्तसम्पदाश्च । धृतेः सन्तोषस्य, पुत्रो मे भविष्यतीत्येवंरूपस्येत्यर्थः। सदृशीः- अनुरूपाः। पुमान् = नरः, सूयतेऽनेन तत् पुंसवनम् , पुंसवनम् आदिः, यास ताः पुंसवनादिकाः, क्रियाः=संस्कारान् । क्रममनतिक्रम्येति यथाक्रमक्रमशः । व्यधत्त = कृतवान् । समा०---प्रियायाम् अनुरागः प्रियानुरागः, तस्य प्रियानुरागस्य । मनसः समुन्नतिः मन:समुन्नतिः, तस्याः मनःसमुन्नतेः। भुजेन अर्जिताः भुजार्जिताः, तासां भुजाजितानाम् । दिशा. मन्ताः दिगन्ताः, दिगन्तानां सम्पदः दिगन्तसम्पदः, तासां दिगन्तसम्पदाम् । क्रममनतिक्रम्य वर्तते इति यथाक्रमम् । पुमान् स्यते अनेनेति पुंसवनम् , पुंसवनम् आदिः ( क्रिया ) यासा ताः पुंसवनादिकाः, ताः पुंसवनादिकाः । ____ अभि०-राजा दिलीपः, स्ववैभवानुसारं स्व प्रियास्नेहानुकूलं स्वकीयालौकिकसन्तोषानुरूपं च पुंसवनादिगर्भसंस्कारान् कृतवान् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy