SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ___ रघुवंशमहाकाव्ये वर्षा होने से जंगल के छोटे छोटे तालों की मिट्टी सोंधी हो जाती है और उसे सूचकर वनगज तृप्त नहीं होता ॥ ३॥ दिवं मरुत्वानिव मोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः । अतोऽमिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलब्ध्य सा ।। ५ ॥ सभी विनो-हि यस्माद्दिगन्तविश्रान्तर यश्चक्रवती तम्याः सुतस्तत्सुतः। मरुत्वानिन्द्रः। 'इन्द्रो मरुत्वान्मयना' इत्यमरः । दिवं स्वर्गमिव भुवं भोक्ष्यते । “भुजोऽनवने" इत्यात्मनेपदम् । अतः प्रथमं सा सुदक्षिणा तथावि भूविकारे मृद्रपे अभिलष्या हत्यभिलाषो भोग्यवस्तु तस्मिन् । कर्मणि घन्प्रत्ययः। रस्यन्ते स्वाद्यन्त इति रसा भोग्बार्थाः । अन्ये च ते रसाश्च तान्विलद् ध्य विहाय मनो बबन्ध । विदवावित्ययः। दोहरहे तुमस्य मृद्भक्षणस्य पुत्रमोगसूचनार्थत्वमुत्प्रे. क्षितम् ॥ ४॥ ___ अन्वयः-हि दिगन्तविश्रान्तरथः, तरसुतः, मरुत्वान् , दिवम् , इव, भुवं, मोक्ष्यते, अतः प्रथम, सा तथाविधे, अभिलाषे, अन्यरसान् , विलंध्य, मनः, बबन्ध। वाच्य-हि, दिगन्तविश्रान्तरथेन तत्सुतेन मरुत्वता द्यौरिव भूः भोक्ष्यतेऽतः प्रथमं तया तथाविधेऽभिलाषेऽन्यरसान् विलंध्य मनः बबन्धे । ___ व्याख्या-हि = यतः । दिशाम् -- काष्ठानाम् , अन्ता: = प्रान्ताः। तेषु विश्रान्तः =कृतविश्रामः, गतः, इति दिगन्तविश्रान्तः। दिगन्तविश्रान्तः रथः= स्यन्दनं यस्य स दिगन्तविश्रान्तरथः चक्रवर्ती इत्यर्थः। तस्याः-सुदक्षिणायाः । सुतः पुत्रः, इति तत्सुतः मरुत्वान् = इन्द्रः, दिवं-स्वर्गम् , इव - यथा, भुवं पृथिवीं, मोक्ष्यते = उपभोक्ष्यते, अतः- अस्मात् कारणात् , प्रथमं पूर्वम् , सा सुदक्षिणा तथा विधा इव विधा= प्रकारो यस्य सः तस्मिन् तथाविधे = मृद्रपे, अभिलष्यते इत्यमिलापस्तस्मिन् अभिलाषे = मनोरथे, अन्ये च ते रसा अन्यरसास्तान् अन्यरसा = अपरान्स्वादान् विलंध्य = तिरस्कृत्य परित्यज्येत्यर्थः, मनः- चित्तं, बबन्ध = नियोजयामास= निदधावित्यर्थः।। समा०--मरुतः सन्त्यस्येति मरुत्वान् । दिशामन्ताः दिगन्ताः, दिगन्ते यु विश्रान्तः रथः यस्य सः दिगन्तविश्रान्तरथः। तस्याः सुतः तत्सृतः । तथा विधेव विधा यस्य सः तथाविधः, तस्मिन् तथाविधे । अन्ये च ते रसाश्च अन्यरसाः, तान् अन्यरसान् । अभि०-देवेन्द्रः स्वर्गमिव सुदक्षिणातनयोऽपि चक्रवती भूत्वा सम्पूर्णा ससागरां मही महीं भोक्ष्यते, इति हेतोः मुदक्षिणा, सर्वान् पदार्थान् परित्यज्य केवलं प्रथमं मृद्भक्षणरूपेऽभिलाषे मनः बबन्ध। हिन्दी-चारों दिशाओं के अन्त तक गया है रथ जिसका, ऐसा सुदक्षिणा का पुत्र भविष्य में सम्पूर्ण पृथिवी पर उसी प्रकार राज्य करेगा जिस प्रकार इन्द्र स्वर्ण पर राज्य करता है। इसीलिये मानो रानी होकर भी सुदक्षिणा ने सब पदार्थ छोड़कर पहले ही से मिट्टी खाना आरम्भ कर दिया ॥ ४॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy