SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः भुजङ्गेन्द्रेण समानसारे तुल्यबले । 'सारो बड़े स्थिराशे च न्याय्ये क्लीवं वरे त्रिषु' रत्यमरः। भुजे भूयो भूमेधुरमासप्तम्ज स्थापितवान् ॥ ७४ ॥ अन्वयः-पुरन्दरीः , सः, पौरैः, अमिनन्द्यमानः, उत्पताक; पुरं, प्रविश्य, भुजगेन्द्रसमानसारे, भुजे, भूयः, भूमेः, धुरम् . आससञ्ज ।। वाच्य०-पुरन्दरश्रिया तेन पौरैः अभिनन्द्यमानेन धूः आससब्जे। ___ व्याख्या-पुरन्दरस्य = इन्द्रस्य, श्रीः शोमा, इव, श्रीर्यस्य सः पुरन्दरश्रीः, सः राजा दिलीपः, पौरैः = नागरिकैः, अभिनन्द्यमानः = अमितुष्यमाणः, उच्छ्रिताः=ऊर्ध्व गताः, पताकाः= ध्वजाः यस्मिन् तत् , उत्पताकं, पुरं = नगरं, प्रविश्य, भुजाभ्यां गच्छन्तीति भुजंगाः सस्तेिषु, इन्द्रः = स्वामी, भुजंगेन्द्रस्तेन समानः = तुल्यः, सारो बलं यस्मिन् तस्मिन् तथोक्त, भुजे = बाहो, भूयः = पुनः, भूमेः = पृथिव्याः, धुरं =भारम् , आससञ्ज = स्थापितवान् । समा०-पुरन्दरस्य श्रीरिव श्रीः यस्य सः पुरन्दरश्रीः। पुरे भवाः पौराः, तैः पोरैः। उद् पताकाः यस्य तत् उत्पताकम् तत् उत्पताकम् । भुजाभ्यां गच्छन्तीति भुजङ्गाः, भुजङ्गेषु इन्द्रः भुजङ्गेन्द्रः, भुजङ्गेन्द्रेण समानः सारो यस्य सः भुजगेन्द्रसमानसारः, तस्मिन् भुजङ्गेन्द्रसमानसारे । अमि०-अयोध्यावासिजनैः स्तूयमानः सन् राजा दिलीपः नगरं प्रविश्य पुनरपि पृथिव्याः परिरक्षषरूपमारं स्वभजे धृतवान्। हिन्दी-देवेन्द्र के समान सम्पत्तिशाली राजा दिलीप ने प्रजा का समादर पाकर अयोध्या नगरी में प्रवेश किया, जिसमें उनके स्वागत के लिये झण्डे, ऊँचे कर दिये गए थे। वहाँ पहुँच कर उन्होंने शेषनाग के समान बलवती अपनी भुजा से राजकार्य का भार सम्माल लिया ॥ ७४ ॥ अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् । नरपतिकुलभूत्यै गर्ममाधत्त राज्ञी गुरुमिरभिनिविष्टं लोकपालानुमावैः ॥ ७५ ॥ सञ्जीविनी-अथ द्यौः सुरवर्म । 'द्यौः स्वर्गमरवर्त्मनोः' इति विश्वः। अत्रेमहर्नयनयोः समुत्थमुत्पन्न नयनसमुत्थम् । "आतश्चोपसर्गे" इति कप्रत्ययः। ज्योतिरिव । चन्द्रमित्यर्थः । 'ऋक्षेशः स्थादत्रिनेत्र मसूतः' इति हलायुधः। चन्द्रस्यात्रिनेत्रोद्भतत्वमुक्तं हरिवंशे-“नेत्राभ्यां वारि सुस्राव दशधा द्योतयद् दिशः। तद्गर्भविधिना हृष्टा दिशो देव्यो दधुस्तदा ॥ समेत्य धारयामासुर्न च ताः समशक्नुवन् । स ताभ्यः सहसैवाथ दिग्भ्यो गर्भ: प्रभान्वितः ॥ पपात नासयंल्लोकान्छीतांशुः सर्वमावनः ॥” इति । सुरसरिद्गङ्गा वह्निना निष्ठ्यूतं निक्षिप्तम् । “च्छ्वोः शडनुनासिके च" इत्यनेन निपूर्वाष्ठीवतेर्वकारस्य अल् 'नुत्तंनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः' इत्यमरः। ऐशं तेजः स्कन्दमिव । अत्र रामायणम्-"ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् । अग्नि नियोजयामासुः पुत्रार्थ सर्वदेवताः ॥ देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सन ।। देवताना प्रतिशायगङ्गा मभ्येत्य पावकः । गर्भ धारय वै देवि देवतानामिदं प्रियम् ।। इत्येतदचनं श्रुत्वा दिव्यं रूप
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy