SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ३० अन्धयः-तत्पूर्वमङ्गे, इषुपयोगे, वितधप्रयत्नः, 'अतएव' वज्र, मुमुझन् , उपम्पकवीक्षणेन, जड़ीकृतः, बज्राणिः. इव, “स्थितो राजा" एवं, प्रत्यब्रवीत् च । वाच्य०-वितथप्रयत्नेन, वज्रं मुमुक्षता, जड़ीकृतेन, वज्रपाणिना, इव, एवः प्रत्यौच्यत। व्याख्या-म बाहुस्तम्भरूपः, एवं पूर्व: = प्रथमः, मङ्गः = प्रतिबन्धो यस्य स तस्मिन् , तत्पूर्वमङ्गे, इषोः = बापस्य, प्रयोगः प्रयुक्तिः, तस्मिन् , षुप्रयोगे. वितथः = विफल:. प्रयत्नः= प्रयासः, उद्योगो यस्य सः, वितथप्रयत्नः, “अत एत्र" वज्र =कुलिशं, मुमुक्षन् = मोक्तं = त्यक्तुम् इच्छन्, व्यम्बकस्य = त्रिनयनस्य शिवस्य, वीक्षणेन:- अवलोकनेन, जडीकृत:=निश्चेष्टीकृतः, वज्रं पाणी यस्य सः, वज्रपाणि = इन्द्रः, इव स्थितो राजा" इति शेषः, एनं - सिंहम् , प्रत्यब्रवीत् = प्रत्युक्तवान् । समा०-स एव पूर्वः भङ्गः यस्य सः तत्पूर्वमङ्गः, तस्मिन् तत्पूर्वभङ्गे। इषोः प्रयोगः इषुप्रयोगः तस्मिन् इषुपयोगे। वितथ: प्रयत्नः यस्य म: वितयप्रयत्नः। न जड़ः अजबः, अजड़: जड़ः सम्पद्यमानः कृतः जड़ीकृतः । त्रीणि अम्बकानि ( नयनानि ) यस्य स: यम्बकः, त्र्यम्बकस्य वीमणं त्र्यम्बकत्रीक्षणम् , तेन त्र्यम्बकवीक्षणेन । मोक्तुम् इच्छन् मुमुक्षन् । वज्रं पाणौ यस्य सः वज्रपाणिः । भभि०-बाणप्रयोगे व्यर्थप्रयासः, महेश्वरावलोकनेन जड़ीक़तः वज्रं प्रहर्तुमिच्छन् देवराज इव स्थितो राजा दिलीपः सिंहं प्रत्युवाच । हिन्दी-शंकर जी पर वज्र प्रहार करने के इच्छुक, किन्तु उनकी दृष्टि मात्र से स्तम्भित, वज्रपाणि इन्द्र की तरह निश्चेष्ट हुए राजा दिलीप बाणप्रयोग में अपनी पहले पहल उस विफलता को देखकर सिंह को उत्तर देने लगे ॥ ४२ ।। संरुद्धचेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षुः। अन्तर्गतं प्राणभृतां हि वेद सर्व भवान्मावमतोऽमिधास्ये ॥ ४३ ॥ ___ सञ्जीविनी-हे मृगेन्द्र ! संरुद्धचेष्टस्य प्रतिबद्धव्यापारस्य मम तद्नो वाक्यं कामं हास्यं परिहसनीयम् , यदनः 'स त्वं मदीयेन' इत्यादिकमहं विवक्षुर्वक्तुमिच्छुरस्मि । तहिं तूष्णी स्थीयतामित्याशङ्कयेश्वर किंकरस्वात्सर्वशं त्वा प्रति न हास्यमित्याह । अन्तरिति । हि यज्ञो भवान्प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्त्या बहिरप्रकाशितमेव सर्व भावं वेद वेत्ति "विदो लटो वा" इति पलादेशः। अतोऽहममिधास्ये वक्ष्यामि । वच इति प्रकृतं कर्म संबध्यते । अन्ये स्वीदृग्नचनमाकासमावितार्थमेतदित्युपहसन्ति । अतस्तु मौनमेव भूषणम् । त्वं तु वाङ्मनसयोरेकविध एवायमिति जानासि । अतोऽमिधास्ये थचोऽहं विवक्षरित्यर्थः ॥ ४३ ॥ अन्वयः-“हे !" मृगेन्द्र ! संरुद्धचेष्टस्य, "मम" तद् वचः, कामं, हास्यम् , “अस्ति" बद् "वच:" अहं, विवक्षः "अस्मि" हि, भवान् , प्राणभृताम् , अन्तर्गतं, सर्व, भावं, वेद, अतः अभिधास्ये। वाच्य०--तेन, वचसा, हास्येन, "भूयते" मया विवक्षणा “भूयते" अन्तर्गतः, भावो भवता, विद्यते, अतः, अमिधास्यते । __व्याख्या-मृगेन्द्र =हे सिंह ! संख्दा = प्रतिरुद्धा, चेष्टा = हस्तसंचालनादिव्यापारो यस्य तस्य संरुखचेष्टस्य, मम= दिलीपस्य, तद्- उच्चमानं क्या वाक्यम् , कामं यथेष्टम् , हसितुं योग्य
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy