SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ३४ रघुवंशमहाकाव्ये तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ । व्यापारितः शूलभृता विधाय सिंहस्वमशागतसत्ववृत्ति ॥ ३८ ॥ सब्जीविनी-तदा तत्कालत: प्रभृतिरादियस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वनद्विपानां त्रासार्थ मयार्थ शूलभृता शिवेन अङ्घ समीपभागताः प्राप्ताः सत्त्वाः प्रापिनो वृत्तियस्मिस्तत् । 'अङ्कः समीप उत्सङ्ग चिन्हे स्थानापराधयोः' इति केशवः । सिंहत्व विधाय अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारतो नियुक्तः ।। ३८॥ अन्वयः-तदाप्रभृति, एव, वनद्विपाना, त्रासार्थ, शूलभृता, अङ्कागतसत्त्ववृत्ति सिंहत्वं, विधाय, अस्मिन् , अद्रिकुक्षौ, अहं, व्यापारितः । वाध्य०-शूलभृत् मां व्यापारितवान् । व्याख्या-तदाप्रभृति तत्कालादारभ्य एव, वनदिपानां= वनगजाना, त्रासार्थ =मयार्थम् , शलभृता=शिवेन, अङ्क=समीपम् , भामता:=प्राप्ताः, ये सत्त्वाःप्राणिनः एव वृत्तिः = मोजन यस्मिन् तत् , सिंहस्य मावः सिंहत्वं = केसरित्वं, विधाय = कृत्वा, अस्मिन् = पुरोवतिनि, अद्रेः= पर्वतस्य, कुक्षिः=गुहा, तस्मिन् अद्रिकुक्षौ, अहं =सिंहः, व्यापारित: नियुक्तः। समा०–तदा प्रमृतिः ( स काल आदिः) यस्मिन् कर्मणि तद् यथा भवति तथा तदाप्रभृति (क्रियाविशेषणम् ) । वनस्य द्विपाः, वनद्विपाः, तेषां वनद्विपानाम् । वासाय इति त्रासार्थम् ( अस्वपदविग्रहः )। शुलं बिभर्ति इति शूलभृत् तेन शूलभृता। अङ्कम् आगता: सत्वा एव वृत्तिः यस्मिन् तव अकागतसत्त्ववृत्ति, तत् अङ्कागतसत्त्ववृत्ति । अद्रेः कुक्षिः अद्रिकुक्षिः, तस्मिन् अद्रिकुक्षौ। भमि०-देवदारुवल्कलोत्पाटनकालादारभ्यैव शिवः वन्यगजभयार्थम् अस्यां गुहायो मम समीपा.. गतजन्तुमोजनमिति निर्धार्य मा सिंहरूपिणं कृत्वा नियुक्तवान् । हिन्दी-तभी से जंगली हाथियों को डराने के लिये त्रिशूलधारी शिवने, पास में आये हुए जीवों पर निर्वाह करनेवाली सिंह की आकृति देकर मुझे इस गुफा में नियुक्त कर दिया है ॥ ३८ ॥ तस्यालमेषा क्षुधितस्य तृपयै प्रदिष्टकाला परमेश्वरेण । उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥ ३९ ॥ सञ्जीविनी-परमेश्वरेण प्रदिष्टो निर्दिष्टः कालो भोजनवेला यस्याः सोपस्थिता प्राप्तेषा गोरूपा शोणितपारथा शोपितस्य रुधिरस्य पारणा व्रतान्तमोजनम् । मुरद्विषो राहोः चन्द्रमस इयं चान्द्रमसी सुधेव। क्षुधितस्य बुभुक्षितस्य तस्याङ्कागतसत्ववृत्तमें मम सिंहस्य तृप्त्या अलं पर्याप्ता। "नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च" इत्यनेन चतुर्थी ॥ ३९ ॥ __ अन्धयः--परमेश्वरेण, प्रदिष्टकाला, उपस्थिता, एषा, शोणितपारणा, सुरद्विषः, चान्द्रमसो, सुधा, इव, क्षुधितस्य, तस्य, मे, तृप्त्य, अलम् । वाच्य०-एतया, शोणितपारषया, सुरद्विषः, चान्द्रमस्या सुक्या इव क्षधितस्य मे तृप्त्यै अलं मयते। व्याख्या-परमेश्वरेण = महादेवेन, प्रदिष्टः = निर्दिष्टः, कालः= समयो भोजनवेला यस्याः सा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy