SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १६ रघुवशमहाकाये शशाम वृष्टयापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः । उनं न सत्वेष्वधिको बबाधे तस्मिन् वनं गोप्तरि गाहमाने ॥ १४ ॥ सब्जीविनी-गोप्तरि तस्मिन्राशि वनं गाहमाने प्रविशति सति वृष्टया विनापि दवाग्निर्वनाग्निः। 'दबदावी वनानले' इति हैमः । 'दवदावी वनारण्यवह्नी' इति चामरः । शशाम । फलानां पुष्पाणां च वृद्धिः । विशेष्यत इति विशेषा अतिशयिताऽसीत् । कर्माथें घप्रत्ययः । सत्त्वेषु जन्तुषु मध्ये । 'यतश्च निर्धारणम्' इति सप्तमी। अधिकः प्रबलो व्याघ्रादिरूनं दुर्बलं हरिप्यादिकं न बबाधे न पिपोड ॥१४॥ अन्वयः-गोप्तरि, तस्मिन् . वनं, गाहमाने, सति, वृष्टया, विना, अपि दवाग्निः, शशाम, फलपुष्पवृद्धिः, विशेषा, आसोत् , सत्त्वेषु ( मध्ये ) अधिकः, ऊनं न बबाधे । वाच्य-दवाग्निना शेमे, फलपुष्पवृद्धया बिशेषया अभूयत, अधिकेन ऊनः न बबाघे । व्याख्या-गोपायतीप्ति गोप्ता तस्मिन् गोप्तरि = रक्षके, वनं = काननं, गाहते असौ गाहमानः तस्मिन् गाहमाने = प्रविशति ( सति ), वृष्टया=वर्षणेन, विना = अन्तरेण, अपिः = विरोधे, दवस्य = वनस्य, अग्निः = वह्निः, इति दवाग्नि: "दवदावौ वनानले" इति हैम । शशाम = अशमत, फलानां = सस्याना, पुष्पाणां = कुसुमाना, वृद्धिः=समृद्धिः, विशेषा - अधिका, आसीत् = अभवत् , सत्वेषु % जन्तुषु ( मध्ये ) अधिकः = प्रबलः व्याघ्रादिः, ऊनं=दुर्बलं हरिणादिकं, न बबावे= न पीडयामास । समा०-दवस्य अग्निः दबाग्निः। फलानि च पुष्पाणि च फलपुष्पाणि, फलपुष्पाणां वृद्धि फलपुष्पवृद्धिः । गाहते इति गाहमानः तस्मिन् गाहमाने। अभिल-जगत्पालकस्य राशो दिलीपस्य प्रभावातिशयेन वनप्रवेशक्षण एव वनाग्निः स्वयमेट शान्तोऽभूत् , फलपुष्पवृद्धिः विशिष्टा जाता, प्राणिषु च वैरत्यागः जातः। । हिन्दी-जगत् की रक्षा करने वाले राजा दिलीप के वन में प्रवेश करते ही वर्षा के विना म वन की अग्नि शान्त हो गई तथा फल-पुष्पों की खूब वृद्धि हुई और जंगली जन्तुओं के बीच प्रबल सिहादि अपने से दुर्बल हरिणादि को नहीं सताने लगे। अर्थात् राजा के वन में प्रवेश कर हो सब उपद्रव शान्त हो गये ॥ १४ ॥ सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रमा पतङ्गस्य मुनेश्च धेनुः ॥ १५ ॥ सीविनी-पल्लवस्य रागो वर्षः पल्लवरागः। रागोऽनुरक्ती मात्सय क्लेशादौ लोहितादिषु इति शाश्वतः । स इव ताम्रा पल्लवगगताम्रा पतङ्गस्य सूर्यस्य प्रभा कान्तिः । 'पतङ्गः पक्षिसूर्ययोः' इति शाश्वतः । मुनेधेनुश्च । दिगन्तराणि दिशामवकाशान् । अन्तरमवकाशावधिपरिधानान्तधिमेदतादथ्य इत्यमरः। संचारेण पूतानि शुद्धानि कृत्वा दिनाने सायंकाले निलयायास्तमयाय । धेनुपक्ष आलयान च । गन्तुं प्रचक्रमे उपक्रान्तवती ॥१५॥ अन्वयः-पल्लवरागताम्रा, पतङ्गस्य, प्रमा, मुनेः, धेनुः, च दिगन्तराप्पि सञ्चारपूतानि, कृत्वा दिनान्ते, निलयाय, गन्तुम् प्रचक्रमे। वाच्य०-पल्लवरागताम्रया पतङ्गस्य प्रभया मुनेः धेन्वा च गन्तुं प्रचक्रमे ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy