SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ बिजोवा सर्गः अन्वयः-मरुस्प्रहलाः बाललता: बारात् , अभिवर्तमानम् , मत्सखामम् , अध्यम् , तम . प्रसूनः, पौरकन्याः, आचारलाजी, इव, अवाकिरन् । वाच्य०-बाललतामिः, अर्यः, सः, प्रसून, पौरकन्यामिरिव, अवाकीर्यत् । व्याख्या-मस्ता वायुना, प्रयुक्ताः= प्रेरिताः, इति मरुत्प्रयक्ताः, बालाश्च ताः लताः बाहउताः = बालवल्लयः, आरात्=समीपे, अभिवर्तते इति अभिवर्तमानस्तममिवतेमानम् - विद्यमानम्, मरुतः = वायः, सखा=मित्रम् , इति मरुत्सवः अग्निरित्यर्थः, तस्य, आभा, इव, आमा= कान्तिः यस्य सः, तम् मरुत्सखाभम् , अतएव, अच्य = पूज्यं, तं = दिलीपम् , प्रसूनेः = पुष्पैः, पुरे भवाः पौरास्तेषां कन्याः पौरकन्याः= नागरिकबालिकाः, आचाराध =मंगलार्थ लाजाः तैः, भाचारलाजैः, इव- यथा, अवाकिरन् = ववृषुः । समा०-मरुता प्रयुक्तः मरुत्प्रयुक्तः । बालाश्च ताः लताश्च बाललताः। अमि ( अभिमुखं ) वर्तते इति अभिवर्तमानः, तम् अभिवर्तमानम् । मरुतः सखा मरुत्सखः, मरुत्सख इव भामाति इति मरुत्सखामः, तं मरुत्सखामम् । अचितुं योग्यः अर्यः, तम् अर्यम् । पुरे भवाः पौराः पौराश्च ताः पौराणां वा कन्याः पौरकन्याः । आचारार्थाः लाजाः आचारलाजाः ( उत्तरपदलोपः ), ते: आचारलाजैः। अमि०-वहितुल्यदीप्तिमन्तं राजानं दिलीपमागतं दृष्ट्वा बाललताः समीपे वर्तमानस्य दिली. पस्योपरि पुष्पवृष्टिम् अकुर्वन् , यथा पौरकन्याः मंगलार्य लाजवर्षणम् कुर्वन्ति । हिन्दी-वायु से प्रेरित कोमल लताओं ने अग्नि के समान तेजस्वी एवं समीप में आये हुए पूजनीय राजा दिलीप के ऊपर उसी प्रकार फूलों की वर्षा की जिस प्रकार नगरवासियों की बालिका मंगलार्थ धान के लावों की वर्षा करती है ॥ १० ॥ धनुर्भृतोऽप्यस्य दयामावमाख्यातमन्तःकरणैर्विशङ्क। विलोकयन्स्यो वपुरापुरक्षणां प्रकामविस्तारफलं हरिण्यः॥१॥ सन्जीविनी-धनु तोऽप्यस्य राशः। एतेन भयसमावना दर्शिता। तथापि विशंकैनिमीकरन्तःकरणैः कर्तृमिः । दयया कृपारसेनाद्रों भावोऽभिप्रायो यस्य तद्दयार्द्रमावं तदाख्यातम् । दयाभावमेतदित्याख्यातमित्यर्थः । 'भावः सत्वस्वमावामिप्रायचेष्टात्मजन्मस' इत्यमरः। तथाविधं वपुरालोकयन्स्यो हरिण्योऽक्ष्या प्रकामविस्तारस्यात्यन्तविशालतायाः फलमापुः। “विमलं कलुषीमवच्च चेतः कथयत्येक हितैषिणं रिपुंच" इति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृशुरित्यर्थः ॥ ११ ॥ भन्वयः-धनुर्भूतः अपि. अस्य, विशङ्कः, अन्तःकरणः, दयाभावम् , आख्यातम् , वपुः, विलोकयन्त्यः, हरिण्यः, अक्षणाम् , प्रकामविस्तार फलम् , आपुः। वाच्य-विलोकयन्तीभिः, हरिणीमिा, अक्षणां प्रकामविस्तारफलम् , आपे। व्याख्या-धनुबिभर्ति इति धनुर्भृत् तस्य धनुर्भूतः= चापधारिणः, अपि=विरोधे, अस्य = राशो दिलीपस्य, विगता= नष्टा, शंका= मोतिः, येषान्तैः, विशंकैः अन्त:करणः=मनोमिः ( कर्तृमिः ), दवया = करुपया, आर्द्रः= पूर्णः, मावः= अमिमायः, यस्य तत्तथोक्तम् , आख्यातम् = प्रकटितम् . कृपापरिपूर्णमेतद्वपुरिति कथितमित्यर्थः, वपुः = शरीरम् , विलोकयन्त्यः पश्यन्त्यः, हरिण्यः = मृग्यः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy