SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये न्तीम् । जलममिलषति इति बलामिलापी-बलं पिरन् (श ) छाया = प्रतिविम्ब धेनोरिति पावत् , देव- यथा, अन्वगच्छत् = अन्वबजत् ।। समा०-भुवः पतिः भूपतिः । आसनस्य बन्धः बासनबन्धः आसनबन्धे धीरः बासनबन्धधीरः। बलम् अभिलषितुं शीलमस्यासौ जलाभिलाषी। आदत्ते इति भाददाना, ताम् आददानाम् । अमि-धेनुसेवायो संलग्नो राजा दिलीपः तच्छायासदृशः तदनुसरणमकरोत् । हिन्दी-पृथ्वी का स्वामी राजा दिलीप नन्दिनी के खड़े होने पर स्वयं मी खड़ा होता था और चलने पर चलता था, बैठने पर बैठता था एवं जल पीने पर प्यासे की तरह जल पीने लगता था इस प्रकार छाया को तरह उसने नन्दिनी का अनुसरण किया ।। ६ ।। स न्यस्तचिह्नामपि राजलक्ष्मी तेजोविशेषानुमितां दधानः। मासीदनाविष्कृतदानराजिरन्तर्मदावस्थ इथ द्विपेन्द्रः ॥॥ सम्जीविनी-न्यस्तानि परिहतानि चिहानि छत्रचामरादीनि यस्यास्तां तथामूतामपि तेजोविशेषेष प्रमावातिशयेनानुमिताम् । सर्वया राजैवायं मवेदित्यूहितां राजलक्ष्मी दधानः स राजा । अनाविष्कृतदानराजिवहिरप्रकटितमदरेखः । अन्तर्गता भदावस्था यस्य सोऽन्तर्मदावस्थः । तथाभूतो द्विपेन्द्र इव आसीत् ।।७।। अन्वय-न्यस्त्तचिह्नाम् , अपि, तेजोविशेषानुमिता, राजलक्ष्मीम् , दधानः, सः, अनाविष्कृतदानराजिः, अन्तर्मदावस्थः, द्विपेन्द्रः, इव, आसोत् । वाक्य-राजलक्ष्मी दधानेन तेन, अन्तर्मदावस्थेन, द्विपेन्द्रेण, इव, अभूवत ।' व्याख्या--ज्यस्तानि - परित्यक्तानि, चिह्नानि-छत्रचामरादीनि यस्याः सा न्यस्तचिह्ना तां न्यस्तचिह्नाम् अपि, तेजसः = प्रतापस्य विशेषः = अतिशयः, तेन, अनुमिता=तकिंता तां तेजोविशेषानुमिता, राशः = नृपस्थ, लक्ष्मीः=श्रीः, तां राजलक्ष्मीम् , शोमातिशयमित्यर्थः, दधानः-विभ्रायः, सः= राजा दिलीपः, न आविष्कृतान प्रकटीकृता, दानस्य मदस्य, राजिः - लेखा येन सः तथोक्तः । मदस्य = दानस्य, अवस्था दशा मदावस्था=दशा मदावस्था, अन्तर्गता मदावस्था यस्य सः, अन्तर्मदावस्थः, द्वाभ्यां=मुखशुण्डाभ्यां पिबन्तीति द्विपास्तेषामिन्द्रः, दिपेन्द्रः- गजेन्द्रः, इव=यथा, आसीत् = अभूत् । समा०-न्यस्तानि चिह्नानि यस्याः सा न्यस्तचिह्ना, तां न्यस्तचिह्वाम्। तेजसः विशेषः तेजोविशेषः, तेजोविशेषेण अनुमिता तेजोविशेषानुमिता, ता तेजोविशेषानुमिताम् । राशः लक्ष्मीः राजलक्ष्मीः तां राजलक्ष्मीम् । न आविष्कृता अनाविष्कृता, दानस्य राजिः दानराजिःः अनाविष्कृदा दानराजिः येन सः अनाविष्कृतदानरानिः । मदस्य अवस्था मदावस्था, अन्तः ( अभ्यन्तरे ) मदावस्था यस्य सः अन्तर्मदावस्था । दाभ्यां ( शुण्डतुण्डाभ्यां ) पिबन्तीति द्विपाः, दिपानाम् इन्द्रः दिपेन्द्रः अमि०-यथा दिपेन्द्रः, अनाविष्कृतमदः सन्नपि निजाभ्यन्तरगर्ता मदावस्था स्वतेनोविशेषेष बोषयति एवं राजा दिलीपोऽपि छत्रचामरादीनि राजलक्षणानि अधारयन्नपि स्वप्रमावातिशयेन स्वकीय चक्रवर्तित्वमनुमापयति स्म ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy