SearchBrowseAboutContactDonate
Page Preview
Page 1368
Loading...
Download File
Download File
Page Text
________________ ४९४ रघुवंशे व्याख्या-प्रियाः प्रेयस्यः अङ्गनाः धरन्तीति धराः, पयसां - दुग्धानां धराः इति पयोधरःः, पयोधरेषु = स्तनेषु निषिक्तम् = उक्षितं संलिप्तं चन्दनं मलयजं येषु ते तैः पयोधरनिषिक्तचन्दनैः, मौक्तिकैः = मुक्ताभिः ग्रथितानि = गुम्फितानि चारूणि = मनोहराणि भूषणानि=आभरणानि येषु ते तैः मौक्तिकग्रथितचारुभूषणैः श्रोणिपु = कटिषु नितम्बेषु इत्यर्थः । लम्बिन्यः = लम्बमानाः मणिभिः खचिताः मेखलाः मणिमेखलाः काञ्चीगुणाः= कटिसूत्राणीत्यर्थः येषु ते तैः श्रोणिलम्बिमणिमेखलः । ग्रसन्ते रसान् इति ग्रीष्माः ग्रीष्माणां =ग्रीष्मकालेषु वेषाः= नेपथ्यानि तेषांविधयः = विधानानि = उपाया इत्यर्थः तैः ग्रीष्मवेषविधिभिः तम् = अग्निवर्ण सिषेविरे= सेवितवत्यः । समासः--पयोधरेषु निषिक्तं चन्दनं येष ते तैः पयोधरनिषिक्तचन्दनैः । मौक्तिकः प्रथितानि चारूणि भूषणानि येषु ते तैः मौक्तिकग्रथितचारुभूषणैः । मणिभिः खचिताः मेखलाः मणिमेखलाः श्रीणिषु लम्बिन्यः मणिमेखलाः येषु तैः श्रोणिलम्बिणिमेखलैः । ग्रीष्मस्य वेषास्तेषां विधयस्तैः ग्रीष्मवेषविधिभिः । हिन्दी-ग्रीष्म काल में स्त्रियाँ राजा अग्निवर्ण के साथ विहार करके गरमी के योग्य वेषभूषा की विधि से उसकी सेवा करती थीं। उस विधि में स्तनों पर चन्दन का लेप तथा अङ्ग में मोती जड़े सुन्दर शीतल आभूषण और नितम्बों पर मणियों की तगड़ी ( करधनी ) लटकती रहती थी॥ ४५ ॥ यत्स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ। तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ ४६ ॥ सोऽग्निवर्णों लग्नः सहकारश्नृतपल्लवो यस्मिस्तं रक्तपाटलस्य पाटलकुसुमरय समागमो यस्य तमासवं मद्यं पपौ। इति यत्तेनासवदानेन मधुनिर्गमाद्वसन्तापगमात्कृशो मन्दवीर्यस्तस्य चित्तयोनिः कामः पुनर्नवः प्रबलोऽभवत् ॥ अन्वयः-सः लग्नसहकारं रक्तपाटलसमागमम् आसवं पपौ यत् तेन मधुनिर्गमात् कृशः तस्य चित्तयोनिः पुनर्नवः अभवत् । व्याख्या-सः = राजा अग्निवर्णः सहकारयति = मेलयति द्वन्द्वमिति सहकारः लग्नः = संलग्नः संयुक्त इत्यर्थः । सहकारः = आम्रपल्लवः यस्मिन् स तम् लग्नसहकारम् रक्तश्चासौ पाटलः = रक्तपुष्पमिति रक्तपाटलः रक्तपाटलस्य समागमः= संसर्गः यस्य स तं रक्तपाटलसमागमम् आसूयते, इति आसवस्तम् आसवं = मैरेयं मद्यम् पपौ= पीतवान् , इति यत् तेन = मद्यपानेन मधोः = वसन्तस्य निर्गमः = अपगमः-समाप्तिरित्यर्थः इति मधुनिर्गमस्तस्मात् मधुनिर्ग: मात् कृशः = क्षीणः क्षीणवीर्यः इत्यर्थः । चित्तं मनः योनिः = कारणं यस्य स चित्तयोनिः. कामः पुनः = भूयः नवः = नूतनः-प्रबलः इति पुनर्नवः अभवत् = जातः। सहचरवसन्तापगमात् क्षीणः मन्मथः मद्यपानात् पुनः प्रबलो जात इत्यर्थः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy