SearchBrowseAboutContactDonate
Page Preview
Page 1365
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः ४९१ मर्मरैः संस्कारविशेषाच्छब्दायमानैः। 'अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्' इत्यमरः। अगुरुधूपगन्धिभिर्व्यक्तहेमरशनैलौल्याल्लक्ष्यमाणकनकमेखलागुणैहॅमनैहेमन्ते भवैः। 'सर्वत्राण्च तलोपश्च' इति हेमन्तशब्दादण्प्रत्ययस्तलोपश्च। निवसनैरंशुकैः सुमध्यमाः स्त्रिय एकतो नितम्बैकदेश आग्रथनमोक्षयोनींवीबन्धविस्रंसनयोलोलुपमासक्तं तं जहुराचकृषुः ॥ . अन्वयः-मर्मरैः अगुरुधूपगन्धिभिः व्यक्तहेमरशनैः हैमनैः निवसनैः, सुमध्यमाः एकतः आग्रथनमोक्षलोलुपम् तं जहुः। __ व्याख्या-मर्मरन्तोति मर्मरास्तैः मर्मरैः-मर्मरेतिशब्दायमानैः, न गुरुः यस्मात् अगुरु, धूपयति रोगान् दोषानिति धूपम् , अगुरुणः = अगुरुचन्दनस्य धूपं = सुगन्धद्रव्योत्थधूमः तस्य गन्धः = सुरभिरस्ति येषु तानि अगुरुधूपगन्धीनि तैः अगुरुधूपगन्धिभिः हेम्नः= सुवर्णस्य रशनाः = मेखलाः इति हेमरशनाः, व्यक्ताः = संलक्ष्यमाणाः हेमरशनाः येषु तैः व्यक्तहेमरशनैः हिनोति = वर्धयतिवलमिति हेमन्तः हेमन्ते। मार्गपौषोयौं भवानि हैमनानि तैः हैमनैः = हेमन्तर्तुभवैः निक्सनै = अंशुकैः वस्त्रैरित्यर्थः । बाल्ययौवनयोर्मध्ये भवाः, मध्यमाः सुष्ठु मध्यमाः सुमध्यमाः = सुन्दर्यः, सुमध्यमः =मयदेशःकटिः, यासां ताः सुमध्यमाः इति वा । एकतः=नितम्बैकदेशे आग्रथनं = नीवीबन्धः च माझः = नोवोवित्रंसनं चेति आग्रथनमोक्षौ तयोः आग्रथनमोक्षयोः लोलुपः= अतिलुब्धस्तम् आग्रथनमोक्षलोलुपं तम् = अग्निवर्ण जगुः = आकृष्टवत्यः । समासः-अगुरुणः धूपस्य गन्धः येषु तानि तैः अगुरुधूपगन्धिभिः। व्यक्ताः हेम्नः रशनाः येषु तानि तैः व्यक्तहेमरशनैः। सु मध्यमः यासां ताः सुमध्यमाः। आग्रथनं च मोक्षश्च आग्रथनमोक्षी तयोः लोलुपस्तम् आग्रथनमोक्षलोलुपम् ।। हिन्दी-अगर धूपबत्ती की सुगन्धवाले ( अगर की धूप से सुवासित ) और जिनसे सोने को तगड़ी ( करधनी ) स्पष्ट दीख पड़ती है, ऐसे सरसराहट ( फड़फड़ ) करते हुए हेमन्त ऋतु में पहनने के लायक वस्त्रों से वे पतली कमरवाली किशोरियां, नीवी को बान्धने और खोलने में अत्यन्त उत्कण्ठा वाले उस अग्निवर्ण को मोहित कर लिया करती थीं ॥ ४१ ॥ अर्पितस्तिमितदीपदृष्टयो गर्मवेश्मसु निवातकुक्षिषु । तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥ ४२ ॥ निवाता वातरहिताः कुक्षयोऽभ्यन्तराणि येषां तेषु गर्भवेश्मसु गृहान्तर्गृहेष्वर्पिता दत्ताः स्तिमिता निवातत्वान्निश्चला दीपा एव दृष्टयो याभिस्ताः। अत्रानिमिषदृष्टित्वं च गम्यते । सर्वसुरतान्तरक्षमास्तापस्वेदापनोदनत्वाद्दीर्घकालत्वाच्च सर्वेषां सुरतान्तराणां सुरतभेदानां क्षमाः क्रियाः शिशिररात्रयस्तस्याग्निवर्णस्य साक्षितां ययुः । विविक्तकालदेशत्वायथेच्छं विजहारेत्यर्थः । अन्वयः-निवातकुक्षिषु गर्भवेश्मसु अर्पितस्तिमितदीपदृष्टयः सर्वसुरतान्तरक्षमाः शिशिररात्रयः तस्य साक्षितां ययुः।। व्याख्या-निवृत्तः वातः यस्मात् स निवातः । कुष्यते = निष्काष्यते येभ्यस्ते कुक्षयः निवाताः= वातरहिताः कुशयः = अभ्यन्तरभागाः येषां तेषु निवातकुक्षिषु गर्भ = गृहमध्ये यानि
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy