SearchBrowseAboutContactDonate
Page Preview
Page 1363
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः व्याख्या-प्रावृषि इत्यनुषजनीयम् सः =राजा अभिवर्णः विविधं सुखादि गृह्णाति, विविधैः व्याध्यादिभिर्वा गृह्यते, विरुद्धं गृह्णातीति वा विग्रहस्तस्मात् विग्रहात् = प्रणयकलहात् "समरानोकरणाः कलहविग्रहौ" इत्यमरः। शयने = पर्यके पराञ्चति = अनभिमुखं भवतीति पराक् । पराक् मुखम् = आननं यासां ताः पराङ्मुख्यस्ताः पराङ्मुखोः=मुखं परावृत्य सुप्ताः इत्यर्थः । अबलाः । मानिनीः प्रेयसीः अनुनेतुम् =अनुकूलयितुं = स्वाभिमुखीकर्तुमित्यर्थः । न तत्वरेन त्वरयाञ्चकार । किन्तु धनानां मेवानां शब्दः = गर्जितं तेन विक्लवाः =भीरू:= चकिताः इति. घनशब्दविक्लवाः अत एव विवृत्य = आत्मनैव अभिमुखीभूय भुजयोः = बाह्वोः अन्तरं = मध्यमिति भुजान्तरं विशतीः प्रविशन्तीः ताः = अबलाः आचकांक्ष = आकांक्षितवान् । अबलाभिः स्वयमेव सम्मुखत्वमैच्छदित्यर्थः। समासः-पराक् मुखं यासां ताः पराङ्मुख्यः, ताः पराङ्मुखीः। न बलं यासां ताः अबलाः । घनानां शब्दः घनशब्दः तेन विक्लवास्ताः घनशब्दविक्लवाः । भुजयोः अन्तरमिति भुजान्तरम् तत् । हिन्दी--अपने प्रेमी से झगड़ा होने के कारण पलंग पर मुँह फेरकर सोती हुई स्त्रियों को राजा अग्निवर्ण मनाने की जल्दी नहीं करता था। किन्तु यही चाहता था कि मेवों की गर्जना सुनकर डरी हुई वे स्त्रियाँ स्वयं ही मेरी भुजाओं में घुस जायें । अर्थात् स्वयं ये मेरी छाती से लिपट जायें ॥ ३८॥ कार्तिकीषु सवितानहम्य॑माग्यामिनीषु ललिताङ्गनासखः । अन्वभुत सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥ ३९ ॥ कार्तिकस्येमाः कार्तिक्यः । 'तस्येदम्' इत्यण् । तासु यामिनीषु निशासु । शरद्रात्रिष्वित्यर्थः। सवितानान्युपरिवस्त्रावृतानि हाणि भजतीति सवितानहर्यभाक् । भजेविप्रत्ययः। हिमवारणार्थ सवितानमुक्तम् । ललिताङ्गनासखः सोऽग्निवर्णः सुरतश्रमापहां मेघमुक्ता चासौ विशदा च ताम् । बहुलग्रहणात्सविशेषणसमासः । चन्द्रिकामन्वभुङ्क्त ॥ ___ अन्वयः-कार्तिकीषु यामिनीषु सवितानहHभाक् ललितांगनासखः सः सुरतश्रमापहां मेघमुक्तविशदां चन्द्रिकाम् अन्वभुङ्क्त । व्याख्या--कृत्तिकानक्षत्रेण युक्ता पौर्णमासी कार्तिकी अस्त्यस्मिन्निति कार्तिकः । कातिकस्य इमाः कार्तिक्यस्तासु कार्तिकीषु = कार्तिकमाससंबन्धिनीषु भयजनकत्वात् निन्दिताः यामाः प्रहराः सन्ति यासां ताः यामिन्यस्तासु यामिनीषु =रात्रिषु, शारदीयनिशासु, इत्यर्थः । वितन्यते इति वितानम् = उल्लोचस्तेन सहितानि सवितानानि = उपरिवस्त्राच्छादितानि यानि हाणि = भवनानि तानि भजति -सेवते इति सवितानहर्यभाक् , तापनिवारणार्थ सवितानेत्युक्तिः। ललिताः= मनोहराश्च ताः अङ्गनाः= स्त्रियः इति ललितांगनास्तासां सखा = मित्रमिति ललितसखः सः = राजा अग्निवर्णः सुरतस्य = सम्भोगस्य श्रमः = खेदः इति सुरतश्रमः, तम् अपहन्ति = दूरीकरोतीति तां सुरतश्रमापहां मेषैः = घनैः मुक्ता = त्यक्ता इति मेघमुक्ता, सा चासौ विशदा स्वच्छा-निर्मला चेति तां मेघमुक्तविशदां चन्द्रोऽस्या अस्तीति चन्द्रिका तां चन्द्रिकां = ज्योत्स्नाम् अन्वभुङ्क्त = बुभुजे ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy