SearchBrowseAboutContactDonate
Page Preview
Page 1361
Loading...
Download File
Download File
Page Text
________________ ४८७ एकोनविंशः सर्गः नयनानि = नेत्राणि यासां ताः विजिह्मनयनाः = कुटिलाक्ष्यः सत्यः व्यलोभयन् = आकृष्टवत्यः । दन्तनखक्षतादिकां स्वां चेष्टां जानन्नपि राजा वृथा नः पोडयति इति सेयं पश्यन्त्यस्ताः तस्य आकर्षिका एव जाता इत्यर्थः । समासः-दशनैः पीडिताः अधराः यासां ताः दशनपीडिताधराः। नखानां पदानि नखपदानि तैः अंकिताः ऊरवः यासां ताः नखपदांकितोरवः । विजिह्मानि नयनानि यासां ताः विजिमनयनाः। हिन्दी--बाँसुरी और वीणा इन दोनों से पीडित ( बजाने में दुःख पा रही ) वे गायिका, उस राजा को कष्ट के कारण कुटिल नजर से देखती हुई भी मोहित कर लेती थीं। क्योंकि उनके ओठ दान्त से काटने से ( चुम्बन के समय ) दूख रहे थे। और उनकी जांघे नखों के क्षत से चाव वाली थीं। अतः ओठ से बाँसुरी तथा जांघपर रखकर वीणा बजाने में पीड़ा होती थी ॥ ३५ ॥ अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन् । स प्रयोगनिपुणेः प्रयोक्तभिः संजघर्ष सह मित्रसंनिधौ ॥ ३६ ॥ अङ्गं हस्तादि । सत्त्वमन्तःकरणम् । वचनं गेयं चाश्रयः कारणं यस्य तदङ्गसत्त्ववचनाश्रयम् । आङ्गिकसात्विकवाचिकरूपेण त्रिविधमित्यर्थः । यथाह भरतः–'सामान्याभिनयो नाम शेयो वागनसत्त्वजः' इति नृत्यमभिनयं मिथो रहसि स्त्रीषु नर्तकीषूपधाय निधाय दर्शयन् । स मित्रसंनिधौ सहचरसमक्षं प्रयोगेऽभिनये निपुणैः कृतिभिः प्रयोक्तभिरभिनयार्थप्रकाशकैर्नाट्याचार्यः सह संजघर्ष संघर्ष कृतवान् । संघर्षः पराभिभवेच्छा। अन्वयः-अंगसत्त्ववचनाश्रयं नृत्यं मिथः स्त्रीषु उपधाय दर्शयन् सः मित्रसंनिधौ प्रयोगनिपुणः प्रयोक्तृभिः सह संजघर्ष । व्याख्या-अंगं = करचरणादि सत्त्वम् =अन्तःकरणं वचनं = वाक्यं गानं च आश्रयः कारणं यस्य स तत् अंगसत्त्ववचनाश्रयम् शारीरिक मानसिकं वाचिकं चेति त्रिविधमित्यर्थः । नृत्यं = नर्तनम्-अभिनयं मिथः=रहसि-अन्योन्यमित्यर्थः । स्त्रीषु = नर्तकीषु उपधाय = निधाय दर्शयन् - प्रदर्शयन् मित्रेभ्य इत्यर्थः सः= मित्राणां सुहृदां संनिधिः = समोपमिति मित्रसंनिधिस्तस्मिन् इति मित्रसंनिधौ प्रयोगे अभिनये निपुणाः=कुशलास्तैः प्रयोगनिपुणैः=अभिनयकरणे चतुरैरित्यर्थः। प्रयोक्तृभिः = अभिनयकर्तृभिः= नाट्याचारित्यर्थः सह = साकं संजघर्ष = संघर्ष कृतवान् , नाट्याचार्यान् पराभवितुमैच्छत् ।। समासः-अङ्गं च सत्त्वं च वचनं चेति अङ्गसत्त्ववचनानि आश्रयः यस्य तत् अङ्गसत्त्ववचनाश्रयम् , तत् । प्रयोगे निपुणास्तैः प्रयोगनिपुणैः । मित्राणां संनिधिस्तस्मिन् मित्रसंनिधौ। ___ हिन्दी-वह राजा अग्निवर्ण जब एकान्त में शारीरिक, मानसिक और वाचिक अभिनय, स्त्रियों को बताकर सिखाकर, अपने मित्रों के सामने दिखाता था। उस समय वह अभिनय करने में बड़े निपुण नाट्य शास्त्र के आचार्यों के साथ संघर्ष (शास्त्रार्थ) करता था । अर्थात् उनको भो पराजित करना चाहता था ॥ ३६ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy