SearchBrowseAboutContactDonate
Page Preview
Page 1354
Loading...
Download File
Download File
Page Text
________________ रघुवंशे येषु तैः नितम्बिभिः = नितम्बवद्भिः मेखलायाः = रशनायाः गुणः = सूत्रं तस्य पदानि = स्थानानि तैः मेखलागुणपदैः = जघनस्थलै : लोभ्यमाने आकृष्यमाणे नयने = नेत्रे यस्य स लोभ्यमाननयनः आकृष्टदृष्टि: सन्नित्यर्थः । तथा = तेन प्रकारेण समाधीयते स्म समाहितः = अवहितः - सावधानः इत्यर्थः न आदधे = न रचनां कृतवान् यथा सम्यक् प्रकारेण रागरचना भवेदिति भावः । ४८० समास:-- : - चरणयोः रागः चरणरागस्तं चरणरागम् । श्लथानि अंशुकानि येषां तैः श्लथांशुकैः । मेखलायाः गुणः मेखलागुणस्तस्य पदानि तैः मेखलागुणपदैः । लोभ्यमाने नयने यस्य स लोभ्यमाननयनः । हिन्दी - राजा अग्निवर्ण जब कभी अपने हाथों से स्त्रियों के पैरों पर महावर लगाने लगता था उस समय वह करधनी की लड़ी के स्थान ( जांघ ) को देखकर ऐसा मोहित (कामासक्त) हो जाता था कि महावर भी ठीक से न लगा पाता था । जो कि वस्त्रों के सरक जाने से नितम्बों के साथ दीख जाते थे ।। २६ ।। चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने । विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥ २७ ॥ चुम्बने प्रवृत्ते सति विपरिवर्तिताधरं परिहृतोष्ठम् । रशनाविघट्टने ग्रन्थिविस्रंसने प्रसक्ते सति हस्तं रुणद्धि वारयतीति हस्तरोधि । इत्थं सर्वतः सर्वत्र विघ्नितेच्छं प्रतिहतमनोरथमपि वधूनां रतं सुरतं तस्याग्निवर्णस्य मन्मथेन्धनं कामोद्दीपनमभूत् ॥ अन्वयः -- चुम्बने विपरिवर्तिताधरं रशनाविघट्टने हस्तरोधि 'इति' सर्वतः विघ्नितेच्छम् अपि वधूरतं तस्य मन्मथेन्धनम् अभूत् । व्याख्या–चुम्बने=मुखसंयोगे प्रवृत्ते सति विपरिवर्तितः = विमुखीकृतः परिहृत इत्यर्थः । अधरः = ओष्ठो यस्मिन् तत् विपरिवर्तिताधरम् रशनाया: = मेखलायाः विघट्टनं = विस्रंसनं यस्मिन् तत् तस्मिन् रशनाविघट्टने प्रसक्ते सति हस्तं = राज्ञः करं रुणद्धि = निवारयतीति हस्तरोधि इत्थं सर्वस्मिन्निति सर्वतः = सर्वत्र विघ्निता = प्रतिहता इच्छा = अभिलाषः यस्मिन् तत् विघ्नितेच्छम् अपि वधूनां = स्त्रीणां रतं = सुरतं = सम्भोगः इत्यर्थः इति वधूरतं तस्य = अग्निवर्णस्य मननं यत् = चेतना मतः मथः = विलोडनमिति मन्मथः । इन्धेऽग्निरनेन इति इन्धनम् । मन्मथस्य = कामस्य इन्धनम् = उद्दीपनमिति मन्मथेन्धनम् अभूत् = जातम् । स्त्रीभिः यत्किमपि तस्मिन् कृतं तत्सर्वं राज्ञः स्मरोद्दीपकमभवदिति भावः । समासः–विपरिवर्तितः अधरः यस्मिन् तत् विपरिवर्तिताधरम् । रशनायाः विघट्टनम् यस्मिन् तत् रशनाविघट्टनम् । हस्तस्य रोधि यत् तत् हस्तरोधि । विघ्निता इच्छा यस्मिन् तत् विघ्नितेच्छम् । मतः मथः मन्मथः, मन्मथस्य इन्धनमिति मन्मथेन्धनम् । वधूनां रतमिति वधूरतम् । हिन्दी- - राजा अग्निवर्ण सम्भोग के समय, जब स्त्रियों का अधर पान ( ओठ चूमना ) करने लगता था, तो वे स्त्रियां ओठ को हटा लेती थीं। ( मुँह फिरा लेतीं ) तगड़ी खोल
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy