SearchBrowseAboutContactDonate
Page Preview
Page 1352
Loading...
Download File
Download File
Page Text
________________ रघुवंशे व्याख्या-मया = तव पत्न्या ते तव महाराजस्य वल्लभः = प्रियवश्चासौ जनः, तस्य वल्लभजनस्य = ते प्रीतिपात्रस्य नाम = अभिधेयं प्राप्य = लब्ध्वा = ज्ञात्वेत्यर्थः । तस्य =तव प्रियजनस्य भज्यते यत् तत् भाग्यं =भागधेयं = शुभाशुभं कर्म इत्यर्थः । काझ्यते = अभिलष्यते। यत् भाग्यं तत्परिहासकारणं तदपि काझ्यते इति। ननु = बत गहितं लुम्पतीति लोलुपं = लोलुभम् अतिलब्धमित्यर्थः । “समौ लोलुपलोलुभौ" इत्यमरः । मम = तव पत्न्याः मनः=चित्तमिति=इत्यनेन प्रकारेण अङ्गनाः = स्त्रियः गोत्रे= नाम्नि विस्खलितः= स्खलितस्तं गोत्रविस्खलितं = अन्यनामोच्चारणे स्खलितवन्तमित्यर्थः तम् =अग्निवर्णम् ऊचुः = जगदुः । तन्नामनि शाते सति तत्सौभाग्यमपि काङ्किण्याः मे तृष्णेत्यहो, इति व्यंग्योक्तिपूर्वकमुपालभन्तेत्यर्थः । समासः-वल्लभश्चासौ जनः वल्लभजनस्तस्य वल्लभजनस्य । गोत्रे विस्खलितः गोत्रविस्खलितस्तं गोत्रविस्खलितम् । हिन्दी-"किसी समय राजा भूल से दूसरी किसी प्रेमिका का नाम लेता, तो वे स्त्रियाँकहतीं कि मैंने आप के प्रिय जन ( प्रेमिका ) का नाम ( आप के कहने से ) जानकर उसका जो सौभाग्य है उसे हम चाहते हैं । अर्थात् वह धन्य है। किन्तु खेद है कि अतिलोभी मेरा मन आप को नहीं छोड़ सकता है इस प्रकार भूल से सपत्नी का नाम लेने वाले उस अग्निवर्ण को स्त्रियों ने उलाहना दिया। अर्थात् उसका तिरस्कार किया ॥ २४ ॥ चूर्णबभ्र लुलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् ॥ २५ ॥ चूर्णबभ्र चूर्णेानतकरणैरधोमुखावस्थितायाः स्त्रियाश्चिकुर गलितैः कुङ्कमादिभिर्बभ्र पिङ्गलम् । "बभ्र स्यापिङ्गले त्रिषु' इत्यमरः । लुलितस्रगाकुलं करिपदाख्यदन्धे स्त्रिया भूमिगतमस्तकतया पतिताभिर्जुलितस्रग्भिराकुलम् । छिन्नमेखलं हरिविक्रमकरणः स्त्रिया उच्छ्रितैकचरणत्वादलितमेखलम् । अलक्तकाङ्कितं धैनुकबन्धे भूतलनिहितकान्ताचरणत्वाल्लाक्षारागरूषितं शयनं कर्तृ । उत्थितस्य । शयनादिति भावः। विलासिनस्तस्याग्निवणेस्य विभ्रमरतानि लीलारतानि। सुरतबन्धविशेषानित्यर्थः । अपावृणोत्स्फुटीचकार । व्यानतादीनां लक्षणं रतिरहस्ये-'व्यानतं रतमिदं प्रिया यदि स्यादधोमुखचतुष्पदाकृतिः । तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितस्थितिः ॥ भूगतस्तनभुजास्यमस्तकामुन्नतस्फिचमधोमुखीं स्त्रियम् । कामति स्वकरकृष्टमेहने वल्लभे करिपदं तदुच्यते ॥ योषिदेकचरणे समुत्थिते जायते हि हरिविक्रमाह्वयः। न्यस्तहस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा । अग्रतो यदि शनैरधोमुखी धैनुकं वृषवदुन्नते प्रिये ॥ इति ॥ अन्वयः-चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलम् , अलक्तकांकितम् , शयनम् (कर्तृपदम् ) उत्थितस्य विलासिनः तस्य विभ्रमरतानि अपावृणोत् । __व्याख्या-चूर्ण्यन्ते इति चूर्णानि । चूर्णः क्षोदैः बभ्रु = पिंगलवर्णम् , चूर्णबभ्र सम्भोगकाले व्यानतनामकासनेऽधोमुखस्थितायाः स्त्रियाः केशपाशपतितकुंकुमेन पिंगलमित्यर्थः। लुलि
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy