SearchBrowseAboutContactDonate
Page Preview
Page 1345
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः ४७१ मलकायाश्चेश्वराविन्द्रकुबेरावत्यजीवदतिक्रम्याजीवत् । ततोऽप्युत्कृष्टजीवित आसीदित्यर्थः । इन्द्रादेरपि दुर्लभमीदृशं सौभाग्यमिति भावः ॥ अन्वयः-चारु नृत्यविगमे च परिश्रमात् स्वेदभिन्नतिलकं तन्मुखं प्रेमदत्तवदनानिलः पिबन् अमरालकेश्वरौ अत्यजीवत्।। __व्याख्या-च= किञ्च चरति चित्ते, इति चारु=सुन्दरं नृत्यस्य = लास्यस्य विगमः = अवसानमिति नृत्यविगमस्तस्मिन् नत्यविगमे परितः श्रमः तस्मात् परिश्रमात् = परिखेदात् स्विद्यतेऽने. नांगमिति स्वेदः, तेन स्वेदेन = धर्मेण = प्रस्वेदेन भिन्नं = विशीर्ण तिलकं = विशेषकं यस्य तत् स्वेदभिन्नतिलकम् तस्याः = नर्तक्याः मुखम् =आननमिति तन्मुखम् प्रेम्णा = स्नेहभावेन दत्तः = प्रवर्तितः = कृतः मुखेन = आननेन अनिलः = वायुः येन स प्रेमदत्त मुखानिलः अग्निवर्णः पिबन् = चुम्बन ईश्वरश्च ईश्वरश्चेति ईश्वरी, अमराणां = देवानाम् अलकायाः= पुर्याश्च ईश्वरौ=इन्द्रकुबेरौ, इति अमरालकेश्वरौ तौ, अत्यजीवत् = अतिलंच्याजोवत्, ताभ्यामप्युत्कृष्टजीवित आसीदित्यर्थः । इन्द्रकुबेराभ्यामपि अतिशयितमग्निवर्णस्य सौभाग्यमिति तात्पर्यम् । समासः-नृत्यस्य जिगमस्तस्मिन् नत्यविगमे। तस्याः मुखमिति तन्मुखम् , तत् । स्त्रेदेन भिन्नं तिलकं यस्य तत् स्वेदभिन्नतिलकम् , तत् । प्रेम्णा दत्तः वदनेन अनिलो येन स प्रेमदत्तवदनानिलः । अमराणाम् अलकायाश्च ईश्वरी, अमरालकेश्वरौ, तौ।। हिन्दी और नाच के समाप्त होने पर परिश्रम के कारण पसीने से जिसका तिलक फैल गया था ( बिगड़ गया था ) ऐसे उस नर्तकी के सुन्दर मुख को प्रेम से फूंक मारकर चूमते हुए राजा अग्निवर्ण देवताओं के राजा इन्द्र, और अलका पुरी के स्वामी कुबेर से भी अधिक सौभाग्यशाली हो गया था ॥ १५ ॥ तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ॥ १६ ॥ उपसृत्यान्यत्र गत्वा नवेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रियार्थेषु सङ्गिन आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया अर्थोपमुक्तेन्द्रियार्थाश्चक्रिरे ॥ यथेष्टं भुक्तश्चेत्तीयं निःस्पृहः सन्नस्मत्समीपं नायास्यतीति भावः। अत्र गोनदायः–'संधिविविधः। सावरणः प्रकाशश्च । सावरणो भिक्षुक्यादिना। प्रकाशः स्वयमुपेत्य केनापि' इति । 'इतः स्वयमुपसृत्य विशेषार्थ तत्र स्थितोऽनुपजापं स्वयं संधेयः' इति वात्स्यायनः । अन्यत्र गतं कथंचित्संधाय पुनरुपगमायाोपभोगेनानिवृत्ततृष्णं चक्रुरित्यर्थः ॥ अन्वयः-उपसृत्य नवेषु काम्यवस्तुषु संगिनः 'सतः' तस्य सावरणदृष्टसन्धयः समागमाः वल्लभाभिः सामिभुक्तविषयाः चक्रिरे । न्याख्या-उपसृत्य = अन्यत्र गत्वा नवेषु = नूतनेषु काम्यानि = अभिलषितानि-शब्दादिविषयाः इत्यर्थः यानि वस्तूनि = इन्द्रियार्थास्तेषु काम्यवस्तुषु संगः = आसत्तिरस्यास्तीति
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy