SearchBrowseAboutContactDonate
Page Preview
Page 1341
Loading...
Download File
Download File
Page Text
________________ ४६७ एकोनविंशः सर्गः तासाम् अम्बूनि तदम्बूनि, तैः । मोहनस्य गृहाणोति मोहनगृहाणि, गृढानि मोहनगृहाणि यासु ताः गूढमोहनगृहाः, ताः तथोक्ताः। हिन्दी--प्रचण्डकामी ( अत्यन्त कामी ) वह राजा अग्निवर्ण, सुन्दरियों के साथ उन बावलियों में विहार करता रहता था, जिनमें बावलियों के जल से छिपे सम्भोग घर बने हुए थे । अर्थात् जल के अन्दर घर बने थे। तथा जिनमें जवानी के कारण ऊँचे उठे हुए स्तनों के टकराने से कमल हिल रहे थे ॥९॥ तत्र सेकहृतलोचनाञ्जनौतरागपरिपाटलाधरैः । अङ्गनास्तमधिकं व्यलोभयन्नर्पितप्रकृतकान्तिभिर्मुखैः ॥ १० ॥ तत्र दीर्विकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः। रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादि । रागस्य परिपाटलोऽङ्गगुणः । 'गुणे शुक्लादयः पुंसि' इत्यमरः। धौतो रागपरिपाटलो येषां ते तथोक्ता अधरा येषां तैः । निवृत्तसांक्रमिकरागैरित्यर्थः। अत एवापिंतप्रकृतकान्तिभिः । अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः । एवंभूतैर्मुखैस्तमग्निवर्णमधिकं व्यलोभयन्प्रलोभितवत्यः॥ अन्वयः-तत्र अंगनाः सेकहृतलोचनाञ्जनैः धौतरागपरिपाटलाधरैः 'अत एव' अर्पितप्रकृतकान्तिभिः मुखैः तम् अधिकं व्यलोभयन् ।। ___ व्याख्या-तत्र=तासु वापीधु प्रशस्तानि अंगानि यासां ताः अंगनाः = कामिन्यः सेकेन = जलसेचनेन हृतं = धौत नेत्राणां = लोचनानाम् अञ्जनं = कज्जलं येषां तानि तैः सेकहृतलोचनाञ्जनैः रज्यतेऽनेनेति रागः रागद्रव्यम् । रागस्य = लाक्षादिरागस्य परिपाटल: रक्तपीतवर्णः इति रागपरिपाटलः। धौतः = प्रक्षालितः रागपरिपाटलः येषां ते धौतरागपरिपाटलाः । धौतरागपरिपाटलाः अधराः = ओष्ठाः येषां तानि तैः धौतरागपरिपाटलाधरैः अत एव अर्पिता = प्रकटिता-व्यञ्जिता प्रकृता= स्वाभाविकी कान्तिः =रागः यस्तानि तैः अपिंतप्रकृतकान्तिभिः एवंभूतैः मुखैः = आननैः तम् = राजानम् अग्निवर्णम् अधिकं = भृशं व्यलोभयन् = प्रलोभितवत्यःमोहितवत्यः। समासः-सेकेन हृतं लोचनानाम् अञ्जनं येषां तैः सेकहतलोचनाअनैः । रागस्य परिपाटलः रागपरिपाटलः, धौतः रागपरिपाटलः येषां ते धौतरागपरिपाटलाः तथाभूताः अधराः येषां तानि तैः धौतरागपरिपाटलाधरैः । अर्पिता प्रकृता कान्तिः यैस्तानि तैः अर्पितप्रकृतकान्तिभिः । ___ हिन्दी-'उन बावलियों में जलविहार करते समय,' जल से धुल गया है काजल जिनका तथा जिनके अधरों ( ओठों ) पर लगा लाल रंग भी धुल गया, अत एव अपने स्वाभाविक सौन्दर्य को व्यक्त करने वाले अपने मुखारविन्दों से उन सुन्दरियों ने उस राजा अग्निवर्ण को और अधिक मोहित कर लिया था ॥ १० ॥ घ्राणकान्तमधुगन्धकर्षिणीः पानममिरचना. प्रियासखः । अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः ॥ ११ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy