SearchBrowseAboutContactDonate
Page Preview
Page 1323
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः ४४९ अन्वयः-सः मौलिपरिग्रहात् पितुः तुल्यः एव भावी, "इति" लोकेन संभावितः । हिकलभप्रमाणः अपि मेघः पुरोवातम् अवाप्य आशाः वृण्वन् दृष्टः। व्याख्या-सः=बालः सुदर्शनः मौलेः = मुकटस्य परिग्रहः = स्वीकारः धारणमित्यर्थः । इति मौलिपरिग्रहस्तस्मात् मौलिपरिग्रहात् पितुः =जनकस्य ध्रुवसन्धेरित्यर्थः। तुल्यः सदृशः पितृसरूप इत्यर्थः। एव = निश्चयेन भावी = भविष्यति । इति लोकेन =जनेन संभावितः= तर्कितः, अनुमितः । हि = तथाहि दर्शयति कलयति, कलते वा कलः, कलं भाषते इति कलभः = करिशावकः प्रमाणम् = इयत्तास्यासौ कलभप्रमाणः, स्वल्पमात्रोऽपि मेधः = वारिदः पुरः=समक्षं वातः= पवनः इति पुरोवातस्तं पुरोवातम् अवाप्य = प्राप्य आशाः = दिशः वृण्वन् = व्यान्नुवन् दृष्टः जनैरिति शेषः। समासः-मौले: परिग्रहः इति मौलिपरिग्रहस्तस्मात् मौलिपरिग्रहात् । कलभः प्रमाणमस्येति कलभप्रमाणः। हिन्दी-उस बालक सुदर्शन के मुकुट धारण करने से ही, प्रजा ने अनुमान कर लिया कि बालक अपने पिता के समान ही प्रभावशाली होगा। ठीक भी है। क्योंकि हाथी के बच्चे के समान छोटा सा भी बादल का टुकड़ा सामने पूर्वो वायु के सहारे दिशाओं में फैलता हुआ देखा जाता है ॥ ३८ ॥ तं राजवीथ्यामधिहस्ति यान्तमाधोरणालम्बितमग्र्यवेशम् । षड़वषदेशीयमपि प्रभुत्वात्प्रेक्षन्त पौराः पितृगौरवेण ॥ ३९ ॥ राजवीथ्यां राजमार्गेऽधिहस्ति हस्तिनि । विभक्त्यर्थेऽव्ययीभावः। यान्तं गच्छन्तम् । हस्तिनमारुह्य गच्छन्तमित्यर्थः । आधोरणालम्बितं शिशुत्वात्सादिना गृहोतमग्र्यवेशमुदारनेपथ्यं षड्वर्षाणि भूतः षड्वर्षः । तद्धितार्थ-' इत्यादिना समासः । 'तमधीष्टो भृतो भूतो भावी' इत्यधिकारे 'चित्तवति नित्यम्' इति तद्धितस्य लुक् । ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः । 'ईषदसमाप्तौ-' इत्यादिना देशीयर्पत्ययः। तं षड्वर्षदेशीयमपि बालमपि तं सुदर्शनं पौराः प्रभुत्वात्पितृगौरवेण प्रेक्षन्त । पितरि यादृग्गौरवं तादृशेनैव ददृशुरित्यर्थः ॥ अन्वयः-राजवीथ्याम् अधिहस्ति यान्तम् आधोरणालम्बितम् अग्र्यवेशम् षड्वर्षदेशीयम् अपि तं पौराः प्रभुत्वात् पितृगौरवेण प्रेक्षन्त। न्याख्या--विथ्यतेऽनया वीथी राशां वीथी राजवीथी तस्यां राजवीथ्यां = राजमार्ग “वीथी पंक्तौ गृहांगे च रूपकान्तारवर्मनोः” इति मेदिनी। हस्तिनि = गजे इति अधिहस्ति = गजोपरि यान्तं = गच्छन्तं गजमारुह्य यान्तमित्यर्थः। आधोरयन्ति = हस्तिगतिचातुर्य जानन्तीति आधोरणाः। आधोरणः = हस्तिपकैः आलम्बितः = गृहीतस्तम् आधोरणालम्बितम् वालत्वात् अय्यः= श्रेष्ठः वेशः = नेपथ्यं यस्य तम् अग्र्यवेशम् = उत्कृष्टवेशभूषाधारिणमित्यर्थः षड्वर्षाणि भूतः षड्वर्षः = षड्वत्सरः। ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः तं षड्वर्षदेशीयम् = षड्वर्षीयबालमपि
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy