SearchBrowseAboutContactDonate
Page Preview
Page 1318
Loading...
Download File
Download File
Page Text
________________ ४४४ रघुवंशे अन्वयः-स्पर्शनिवृत्तलौल्यः ‘अतएव' मघोनः सखा भावी सः वंशकरेण तेन वंशस्थितिं । संभाव्य त्रिपुष्करेषु उपस्पृशन् त्रिदशत्वम् अवाप। व्याख्या-स्पृश्यन्ते इति स्पर्शाः, स्पर्शेभ्यः = विषयेभ्यः निवृत्तं = परावृत्तं लौल्यं = तृष्णा=अभिलाषः यस्य स स्पर्शनिवृत्तलौल्यः अत एव मह्यते = पूज्यते इति मघवा तस्य मघोनः =इन्द्रस्य सखा = मित्रं भावी भविष्यन् स्वर्ग गन्तुमिच्छुः सः= ब्रह्मिष्ठः करोतीति करः वंशस्य = कुलस्य करः = कर्ता, प्रवर्तकस्तेन वंशकरेण तेन = पुत्रनामकेन सुतेन वंशस्य = कुलस्य स्थितिः प्रतिष्ठा तां वंशस्थिति सम्भाव्य =सम्पाद्य, अयं कुलं सम्यक् रक्षयिष्यन् वर्धयिष्यतीति मत्वा इत्यर्थः । त्रयश्च ते पुष्कराः त्रिपुष्करास्तेषु त्रिपुष्करेषु = त्रिधास्थितेषु ब्राह्मतीर्थेषु उपस्पृशन् = स्नानं कुर्वन् तृतीया = यौवनाख्या सदा दशा येषां ते त्रिदशाः, त्रीन् तापान् दशन्तीति वा त्रिदशास्तेषां भावः त्रिदशत्वं = देवत्वम् अवाप = प्राप देवत्वं गत इत्यर्थः । समासः-वंशस्य स्थितिः वंशस्थितिस्तां वंशस्थितिम् । वंशस्य करः वंशकरस्तेन वंशकरेण। स्पर्शेभ्यः निवृत्तं लौल्यं यस्य स स्पर्शनिवृत्तलौल्यः । हिन्दी-विषय वासनाओं की तृष्णा से दूर रहकर इन्द्र के होने वाले मित्र राजा ब्रह्मिष्ठ ने वंश को बढ़ाने तथा चलाने वाले अपने उस पुत्र नामक पुत्र से वंश की प्रतिष्ठा की सम्भावना मानकर अर्थात् यह कुल की मर्यादा रखकर इज्जत बढ़ायेगा यह जानकर तीनों ब्राह्मतीर्थों में स्नान करके देवत्व को प्राप्त हो गये । अर्थात् स्वर्ग में चले गये ॥ ३१ ॥ तस्य प्रमानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी । तस्मिन्नपुष्यनुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ ३२ ॥ तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ। 'पुष्ययुक्ता पौर्णमासी पौषी' इत्यमरः । 'नक्षत्रेण युक्तः कालः' इत्यण्प्रत्ययः 'टिड्ढाणञ्-' इत्यादिना ङीप् । प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूत । द्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति जनाः समग्रां पुष्टिं वृद्धिमपुष्यन् ॥ अन्वयः-तस्य पत्नी पौष्यां तिथौ प्रभानिर्जितपुष्परागं पुष्यम् असूत, द्वितीये पुष्ये इव तस्मिन् उदिते सति जनाः समग्रां पुष्टिम् अपुष्यन् । व्याख्या-तस्य = पुत्रनाम्नः राशः पत्नी = महिषी पुष्यनक्षत्रेण युक्तः कालोऽस्त्यस्याः सा पौषी तस्यां पौष्यां तिथौ पौर्णमास्यां तिथौ पुष्पस्य इव रागः= वर्णः यस्य स पुष्परागः । प्रभया =स्वकान्त्या निर्जितः= पराजितः पुष्परागः = पद्मरागः = मणिविशेषः येन स तं प्रभानिर्जितपुष्परागं पुष्यं = पुष्यनामकं सुतम् असूत = जनयामास। द्वितीये = अपरस्मिन् पुष्ये = नक्षत्रे इव = यथा तस्मिन् - राजनि उदिते = उत्पन्ने सति जनाः =लोकाः समयां = सकलां पुष्टिं = पोषणं वृद्धिम् अपष्यन् = पुपुषुः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy