SearchBrowseAboutContactDonate
Page Preview
Page 1316
Loading...
Download File
Download File
Page Text
________________ रघुवंशे समासः - ब्रह्मणः सभा ब्रह्मसभम् । आ ब्रह्मसभम् इति आब्रह्मसभम् । स्वा चासौ तनुरिति स्वतनुः, स्वतनोः सकाशात् प्रसूतस्तं स्वतनुप्रसूतम् । ४४२ हिन्दी- - ब्रह्मा की सभा तक ( ब्रह्मलोक तक ) जो अपनी कीर्ति से प्रसिद्ध था ऐसे राजा कौसल्य ने ब्रह्मवेत्ता और अपने शरीर से उत्पन्न ब्रह्मिष्ठ नामक अपने पुत्र को अपने राज्य में नियुक्त ( राजतिलक ) करके स्वयं ब्रह्मत्व को प्राप्त ( मुक्त ) हो गये ॥ २८ ॥ तस्मिन्कुलापीडनिभे विपीडं सम्यङ्महीं शासति शासनाङ्काम् । प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥ २९ ॥ कुलापीडनिभे कुलशेखरतुल्ये । " वैकक्षकं तु तत् । यत्तिर्यक् क्षिप्तमुरसि शिखास्वापी - शेखरौ ॥' इत्यमरः । सुप्रजसि सत्संतानवति । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः । तस्मिन्प्रजेशे प्रजेश्वरे ब्रह्मिष्ठे शासनाङ्कां शासनचिह्नां महीं विपीडं निर्बाधं यथा तथा सम्यक्शासति सति । आनन्दजल। विलाक्ष्य आनन्दबाष्पाकुलनेत्राः प्रजाश्चिरं ननन्दुः ॥ अन्वयः – कुलापीडनिभे सुप्रजसि तस्मिन् प्रजेशे शासनांकां महीं विपीडं “यथा स्यात्तथा" सम्यक् शासति सति आनन्दजलाविलाक्ष्यः प्रजाः चिरं ननन्दुः । = व्याख्या - आपीडेन = निभः आपीडनिभः कुलस्य = वंशस्य आपीडनिभः इति कुलापीडनिभः तस्मिन् कुलापीडनिभे = वंशमुकुटमणिरूपे इत्यर्थः । सु = सती, योग्या प्रजा = ! पुत्रः यस्य स तस्मिन् सुप्रजसि = श्रेष्ठपुत्रवति तस्मिन् = ब्रह्मिष्ठे प्रजानां = जनानाम् ईश: = ईश्वरः राजा तस्मिन् प्रजेशे शासनं = एव राज्यम् अंकः = चिह्नं यस्याः सा तां शासनांकां, महीं = पृथिवीं विगता = निर्गता पीडा = बाधा यस्मिन् कर्मणि तत् विपीडं यथा स्यात्तथा शासति सति = पालयति सति आनन्दस्य = प्रहर्षस्य जलं = बाष्पं तेन आकुले = व्याप्ते अक्षिणी = नेत्रे यासां ताः आनन्द जलाविलाक्ष्यः = प्रहर्ष जबाष्प नूरितनयनाः इत्यर्थः । प्रजाः = जनाः चिरं = बहुकालं ननन्दुः - जहर्षुः । आनन्दं प्रापुरित्यर्थः । समासः—कुलस्य आपीडेन निभस्तस्मिन् कुलापीडनिभे । विगता पोडा यस्मिन् कर्मणि तत् विपोडम् । शासनस्य अंकः यस्याः सा तां शासनांकाम् । सु प्रजा यस्य स तस्मिन् सुप्रजसि । प्रजानामीशस्तस्मिन् प्रजेशे । आनन्दस्य जलमिति आनन्दजलं, तेन आविलानि अक्षीणि यासां ताः आनन्दजलाविलाक्ष्यः । हिन्दी - रघुके कुल के मुकुटमणि के समान सुन्दर सज्जन पुत्र वाले वह राजा ब्रह्मिष्ठ राज्य चिह्न से विभूषित पृथिवी का अच्छी प्रकार निष्कण्टक राज कर रहे थे, उस समय प्रजा बहुत काल तक सुख भोग रही थी और प्रजा की आँखें आनन्द के आंसुओं से भरी रहती थीं । अर्थात् इस समय प्रजा पूर्णसन्तुष्ट और सर्वथा प्रसन्न थी ॥ २९ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy