SearchBrowseAboutContactDonate
Page Preview
Page 1305
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद् द्विषतामपीष्टः । सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥ १३ ॥ तस्य देवानीकस्य वशी समर्थः सुतोऽहीनगुनामेति वक्ष्यमाणनामकः । वशं वशकरं मधुरं वदतीति वशंवदः। 'प्रियवशे वदः खच्' इति खच्प्रत्ययः । तस्य भावस्तत्त्वम् । तस्मादिष्टवादित्वात्स्वेषामिव द्विषतामपीष्टः प्रिय आसीत् । अर्थादेवानीकनिर्धारणं लभ्यते। तथाहि । प्रयुक्तमुच्चारितं माधुर्य सकृदेकवारं विविग्नान्भीतानपि हरिणान् ग्रहीतुमीष्टे शक्नोति ॥ अन्वयः-तस्य वशी सुतः वशंवदत्वात् स्वेषाम् इव द्विषताम् अपि इष्टः आसीत् । हि प्रयुक्तं माधुर्य सकृत् विविग्नान् हरिणान् अपि ग्रहीतुम् ईष्टे । व्याख्या-तस्य = अनीकस्य वशः अस्यास्तीति वशी = जितेन्द्रियः, समर्थः सुतः = पुत्रः वशं = वशकरं-मधुरं वदतीति वशंवदः, तस्य भावः वशंवदत्वं तस्मात् वशंवदत्वात् = मधुरप्रियवादित्वादित्यर्थः स्वेषां = स्वजनानाम् इव = यथा द्विषन्तीति द्विषतस्तेषां द्विषतां = शत्रूणाम् अपि इष्टः = प्रियः आसीत् = अभूत् । हि = तथाहि प्रयुक्तम् = उच्चारितं मधुरस्य भावः कर्म वा माधुर्य = मधुरं सकृत् =एकवारम् "सकृत् सहैकवारयोः" इत्यजयः। विविग्नान् =भीतान् अपि किमुत अन्यान् । हरन्ति मनांसि ह्रियन्ते गीतेन वा हरिणास्तान् हरिणान् =मृगान् अपि ग्रहीतु= वशीकर्तुम् ईष्टे = शक्नोति। हिन्दी-देवानीक का जितेन्द्रिय समर्थ पुत्र ( अहीनगु नाम वाला ) मधुरभाषी होने के कारण शत्रुओं को भी उतना ही प्रिय था, जितना कि अपने मित्रों को प्रिय था। ठीक ही है क्योंकि बोला गया मधुर वचन एकबार तो डरे हुए मृगों को भी वश में कर लेता है ॥१३॥ अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास । यो हीनसंसर्गपराङ्मुखत्वायुवाप्यनथै व्यसनैविहीनः ॥ १४ ॥ अहीनबाहुद्रविणः समग्रभुजपराक्रमः। 'द्रविणं काञ्चनं वित्तं द्रविणं च पराक्रमः' इति विश्वः । हीनसंसर्गपराङ्मुखत्वान्नीचसंसर्गविमुखत्वाद्धेतोर्युबाप्यनर्थैरनर्थकरैर्व्यसनैः पानद्यूतादिभिर्विहीनो रहितो योऽहीनगुर्नाम स पूर्वोक्तो देवानीकसुतः समग्रां सां गां भुवं शशास ॥ अन्वयः--अहीनबाहुद्रविणः हीनसंसर्गपराङ्मुखत्वात् युवा अपि अनर्थैः व्यसनैः विहीनः यः अहीनगुः नाम सः समग्रां गां शशास।। व्याख्या–बाहुः=भुजः द्रविणं = धनं पराक्रमश्चेति बाहुद्रविणे। अहीने शक्तिसम्पन्ने बाहुद्रविणे यस्य सः अहोनबाहुद्रविणः बलवबाहुसंपन्नः पराक्रमसम्पन्नः काञ्चनयुक्तश्चेत्यर्थः । हीनानां = निकृष्टानां संसर्गः = संबन्धस्तस्मात् पराङ्मुखः = विमुखः इति हीनसंसर्गपराङ्मुखः, तस्य भावस्तत्वं तस्मात् होनसंसर्गपराङ्मुखत्वात् युवा = तरुणः अपि न अर्थः = प्रयोजनं येषां तानि अनर्थानि तैः अनशैंः =अनर्थकरैः व्यसनैः = मदिरापानबूतादिभिः विहीनः =रहितः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy