SearchBrowseAboutContactDonate
Page Preview
Page 1296
Loading...
Download File
Download File
Page Text
________________ रघुवंशे अन्वयः - इन्द्रात् वृष्टिः अभूत्, यमः नियमितगदोद्रेकवृत्तिः अभूत्, यादोनाथः नौचराणां कर्मणे शिवजलपथः अभूत्, तदनु पूर्वापेक्षी कुबेरः कोषवृद्धिं विदधे, इत्थं लोकपालाः तस्मिन् दण्डोपनतचरितं भेजिरे । ४२२ व्याख्या—इन्दतीति इन्द्रस्तस्मात् इन्द्रात् = शक्रात् वृष्टिः = वर्षम् अभूत् = जाता । यम. यति लोकान् इति यमः = यमराजः नियमिता = निवारिता गदस्य = रोगस्य उद्रेकः = वृद्धिरेव वृत्तिः = व्यापारो येन स नियमितगदोद्रेकवृत्तिः अभूत् । यादसां = जलजन्तूनां नाथः = स्वामी इति यादोनाथः = वरुणः " यादांसि जलजन्तवः" इत्यमरः । नौभिः = नौकाभिः चरन्तीति नौचरास्तेषां नौचराणां = नाविकानां कर्मणे = सञ्चाराय जलस्य पन्थाः = मार्गः इति जलपथः शिवः = सुचरः जलपथः यस्य स शिवजलपथः अभूत् । तस्य अनु = पश्चात् तदनु पूर्वान् = रघुरामादीन् अपेक्षते इति पूर्वापेक्षी = रामादिसामर्थ्यवित् कुम्बति धनमिति कुबेरः कुत्सितं बेरं = शरीरमस्येति वा कुबेरः = धनाधिपः कोषस्य वृद्धिरिति कोषवृद्धिस्तां कोषवृद्धिम् = धनवृद्धिं विदधे = कृतवान् । इत्थम् = अनेकप्रकारेण लोकान् पालयन्तीति लोकपालाः = इन्द्रवरुणादयः तस्मिन् = अतिथौ विषये दण्डेन = दमेन उपनतः = शरणागतस्तस्य चरितं = वृत्ति व्यवहारमिति दण्डोपनत चरितं भेजिरे = सेवितवन्तः । समासः - नियमिता गदस्य उद्रेक एव वृत्तिः येन स नियमितगदोद्रेकवृत्तिः । यादसां नाथः यादोनाथः । शिवः जलस्य पन्थाः यस्य स शिवजलपथः । पूर्वेषाम् अपेक्षीति पूर्वापेक्षी । कोषस्य वृद्धिः तां कोषवृद्धिम् । लोकानां पालाः लोकपालाः । दण्डेन उपनताः दण्डोपनताः दण्डोपतानां चरितमिति तत् दण्डोपनतचरितम् । हिन्दी - राजा अतिथि के राज्य में इन्द्र ने वर्षा की और यमराज, रोगों की बढ़ने की वृत्ति प्रसार या व्यापार को रोकने वाला हुआ, अर्थात् रोग का बढ़ना रोक दिया । तथा वरुण ने भी नाव से चलने वालों के आने जाने के जल मार्ग को अच्छा बना दिया । अर्थात् नदियों के जल को नौकाओं से निर्विघ्न पार करने योग्य बना दिया था । और रघु तथा रामचन्द्रादि की महिमा को जानने वाले कुबेर ने भी अतिथि के खजाने को भरपूर कर दिया। इस प्रकार राजा अतिथि के प्रति इन्द्रादि लोकपालों ने उसके डर के मारे शरणागतों के समान आचरण करके उसकी सेवा की ॥ ८१ ॥ इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनी" व्याख्यायां रघुवंशे महाकाव्ये अतिथिवर्णनो नाम सप्तदशः सर्गः ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy