SearchBrowseAboutContactDonate
Page Preview
Page 1290
Loading...
Download File
Download File
Page Text
________________ ४१६ रघुवंशे चन्द्रमा हीयते=क्षीणो भवति, समुद्रः =सागरः अपि तथा = चन्द्रवत् विधा प्रकारो यस्य स तथाविधः, प्रवृद्धौ हीयते क्षीणः भवतीत्यर्थः। तु= किन्तु सः= राजा अतिथिः ताभ्यां = शशिसागराभ्यां समा = तुल्या वृद्धिः = वर्धनं यस्य स तत्समवृद्धिः च अभूत् = जातः । स च स च तौ= चन्द्रसमुद्रौ इव = यथा क्षयः = नाशोऽस्यास्तीति क्षयी=क्षयवान् न अभूत् =न जातः। शशिसागरयोः पूर्वं वृद्धिः पश्चात् क्षयः किन्तु अस्मिन् राजनि तु वृद्धिरेव जाता न क्षयः, इति भावः। समासः-प्रकृष्टा वृद्धिः प्रवृद्धिस्तस्यां प्रवृद्धौ। ताभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिः । तथा विधा यस्य स तथाविधः । हिन्दी-पूर्ण होनेपर चन्द्रमा घटने लगता है और समुद्र भी उसी प्रकार बढ़कर घटता है। किन्तु यह राजा अतिथि चन्द्र, सागर के समान बढ़ने वाला तो है। लेकिन शशी और सागर के समान घटता नहीं था। क्षयवान नहीं होता था ॥ ७१ ॥ सन्तस्तस्याभिगमनादत्यर्थ महतः कृशाः। उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः ॥ ७२ ॥ अत्यर्थं कृशा दरिद्रा अत एवार्थिनो याचनशीलाः सन्तो विद्वांसो महतस्तस्य राज्ञोऽभिगमनात् । उदधेरभिगमनाज्जीमूता इव दातृत्वं प्रापुः । अर्थिषु दानभोगपर्याप्तं धनं प्रयच्छतीत्यर्थः । अन्वयः-अत्यर्थ कृशाः अर्थिनः सन्तः महतः तस्य अभिगमनात् उदधेः अभिगमनात् जीमूताः इव दातृत्वं प्रापुः।। न्याख्या-अर्थः = निवृत्तिः, विषयो वा, तमतिक्रान्तम् अत्यर्थ = अतिमात्रम्-अत्यन्त. मित्यर्थः । कृशाः = क्षीणाः, धनहीना इत्यर्थः । अतएव अर्थोऽसनिहितो येषामस्ति ते अर्थिनः = याचकाः “अर्थी पुमान् याचके स्यात् सेवके च" इति मेदिनी । सन्तः विद्वांसः महतः = विशालस्य तस्य = राज्ञः अभिगमनात् = समक्षं गमनात् , उदकानि धीयन्तेऽत्र सः उदधिः तस्य उदधेः = समुद्रस्य अभिगमनात् जीवनं = जलं मूतं = बद्धमेभिस्ते जीमूताः = मेघाः इव = यथा दातृणां =भावः दातृत्वं दानशीलत्वं दानशौण्डत्वं प्रापु:=प्राप्तवन्तः। याचकेषु दानभोगपर्याप्त धनं ददातीत्यर्थः। हिन्दी-जिस प्रकार समुद्र के पास जाने से मेघ "इतना जल प्राप्त कर लेते हैं" कि वे मेघ सब को जल देने की शक्ति प्राप्त कर लेते हैं; उसी प्रकार अत्यन्त गरीब निर्धन अतएव माँगने वाले विद्वान् भी महान् राजा अतिथि के पास जाने पर इतना धन प्राप्त कर लेते हैं कि वे स्वयं भोगने तथा दूसरों को दान देने योग्य हो जाते हैं ॥ ७२ ॥ स्तूयमानः स जिह्वाय स्तुत्यमेव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ॥ ७३ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy