SearchBrowseAboutContactDonate
Page Preview
Page 1278
Loading...
Download File
Download File
Page Text
________________ ४०४ रघुवंशे नहि किंतु स्वभावत एवेति शेषः। 'अधिकरणे शेतेः' इत्यच्प्रत्ययः। अत्र मनु:-'धन्वदुर्ग महीदुर्गमब्दुर्ग वार्क्षमेव वा । नृदुर्ग गिरिदुर्ग वा समाश्रित्य वसेत्पुरम् ॥' इति ॥ __ अन्वयः-द्विषां रोद्धः अपि तस्य दुर्ग्रहाणि दुर्गाणि आसन्, हि गजास्कन्दी सिंहः भयात् गिरिगुहाशयः न, “किन्तु स्वभावात्"। ___ व्याख्या-द्विषन्तीति द्विषः तेषां द्विषां शत्रूणां रोदधुः =रोधकस्यापि न तु स्वयं रोध्यस्येत्यर्थः तस्य =अतिथेः दुःखेन ग्रहीतुं शक्यानि दुर्ग्रहाणि = शत्रुभिः धर्षितुमशक्यानि अजेयानीत्यर्थः। दुःखेन गच्छन्त्यत्र तानि दुर्गाणि = कोट्टानि “पुरं दुर्गमधिष्ठानं कोट्टोऽस्त्री राजधान्यपि" इति जटाधरः। आसन् = विद्यन्तेस्म, ननु शूरस्यामीरोः दुगैः किं कार्यमित्याह हि = यतः गजान् = नागान् आस्कन्दति=हिनस्तीति गजास्कन्दी सिंहः = मृगेन्द्रः भयात् =भीतेः कारणात् गिरीणां = पर्वतानां गुहाः= बिलानि तासु शेते = स्वपिति इति गिरिगुहाशयः न= नहि, किन्तु स्वभावादेवेति शेषः । समासः-गजानाम् आस्कन्दी, इति गजास्कन्दी। दुःखेन ग्रहाणि दुर्ग्रहाणि। गिरीणां गुहाः गिरिगुहास्तासु शयः गिरिगुहाशयः । हिन्दी-शत्रुओं को रोकने वाले राजा अतिथि के बहुत से बड़े मजबूत किले थे। अर्थात् यद्यपि वे युद्ध में ही शत्रुओं को घेर कर परास्त कर देते थे, फिर भी राजधानी के चारों ओर किले वनवा रखे थे। यह ठीक भी है क्योंकि-हाथियों को मारने वाला सिंह, पर्वत की गुफाओं में हाथियों के भय से नहीं सोता है। किन्तु सिंह का ऐसा स्वभाव ही है ॥ ५२ ॥ भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः । गर्भशालिसधर्माणस्तस्य गूढ विपेचिरे ॥ ५३ ॥ भव्यमुख्याः कल्याणप्रधानाः। न तु विपरीताः। प्रत्यवेक्ष्या एतावत्कृतमेतावत्कर्तव्यमित्यनुसंधानेन विचारणीयाः। अत एव निरत्यया निर्बाधा गर्भेऽभ्यन्तरे पच्यन्ते ये शालयस्तेषां सधर्माणः । अतिनिगूढा इत्यर्थः । 'धर्मादनिच्केवलात्' इत्यनिच्प्रत्ययः समासान्तः । तस्य राज्ञः समारभ्यन्त इति समारम्भाः कर्माणि गूढमप्रकाशं विपेचिरे। फलिता इत्यर्थः। 'फलानुमेयाः प्रारम्भाः' इति भावः॥ अन्वयः-भव्यमुख्याः प्रत्यवेक्ष्याः अत एव निरत्ययाः, गर्भशालिसधर्माणः तस्य समारम्भाः गूढं विपेचिरे। व्याख्या--भवतीति भव्यं = कल्याणं मुख्यं = प्रधानं येषु ते भव्यमुख्याः, भव्याद्विपरीता नेत्यर्थः । प्रत्यवेक्षितुं = एतावत्कृतमेतावत्करणीयमिति विचारयितुं योग्याः प्रत्यवेक्ष्याः, अत एव निर्गतः अत्ययः = बाधा येभ्यस्ते निरत्ययाः, समानः धर्मः येषां ते सधर्माणः, गर्भ = अभ्यन्तरे पच्यन्ते ये शालयः = कलमाद्यास्तेषां सधर्माणः = अतिनिगूढा इत्यर्थः गर्भशालिसधर्माणः, यथा शालयः गर्भ गूढा एवं पच्यन्ते तथैवास्य राज्ञः प्रारम्भाः अपि फलानुमेया एवेत्यर्थः । तस्य =राशः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy