SearchBrowseAboutContactDonate
Page Preview
Page 1274
Loading...
Download File
Download File
Page Text
________________ रघुवंशे हिन्दी—क्योंकि बाहरी शत्रु सदा नहीं होते हैं और वे दूर रहते हैं। इसलिये राजा अतिथि ने अपने ही शरीर के भीतर सदा रहने वाले छ: शत्रु ( काम क्रोध लोभ मद मोह मत्सर ) ओं को पहले जीत लिया ॥ ४५ ॥ प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः । निकष हेमरेखेव श्रीरसीदनपायिनी ॥ ४६ ॥ स्वभावतश्चपला चञ्चलापि श्रीः प्रसादाभिमुखे तस्मिन्नपे । निकष निकषोपले हिमरेखेव । अनपायिनी स्थिरासीत् ।। अन्वयः-स्वभावतः चपला अपि श्रीः प्रसादाभिमुखे तस्मिन् निकष हेमरेखा इव अनपायिनी आसीत् । व्याख्या-स्वो भावः स्वभावः, स्वभावात् स्वभावतः= प्रकृत्या चपला = चञ्चला अपि श्रीः=राज्यलक्ष्मीः मुखमाभिगत: अभिमुखः, प्रसादस्य = प्रसन्नतायाः अभिमुखः तस्मिन् प्रसादाभिमुखे = प्रसन्नमुखे, इत्यर्थः। प्रसादे अनुग्रहे अभिमुखः = प्रवणः तस्मिन्निति वा तस्मिन् = राशि=अतिथौ निकष = सुवर्णपरीक्षणपाषाणे हेम्नः = सुवर्णस्य रेखा = लेखा इति हेमरेखा इव यथा न विद्यते अपायः = विनाशो यस्याः सा अनपायिनी = स्थिरा-अचपला आसीत् = जाता। समासः-प्रसादस्य अभिमुखः प्रसादाभिमुखस्तस्मिन् प्रसादाभिमुखे । हेम्नः रेखा हेमरेखा। न अपायो यस्याः सा अनपायिनी। हिन्दी-प्रकृति से चंचल भी राज्यलक्ष्मी प्रसन्नमुख वाले या अनुग्रह करने में लगे उस राजा अतिथि के पास आकर उसी प्रकार स्थिर हो गई जैसे कसौटी के पत्थर पर सुवर्ण की रेखा ( लकीर ) अमिट हो जाती है ।। ४६ ॥ कातयं केवला नीतिः शौर्य वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥ ४७ ॥ केवला शौर्यवजिता नीतिः कातयं भीरुत्वम् । शौर्य केवलमित्यनुषजनीयम् । केवलं नीतिरहितं शौर्य श्वापदचेष्टितम् । व्याघ्रादिचेष्टाप्रायमित्यर्थः । 'व्याघ्रादयो वनचराः पशवः श्वापदा मवाः' इति हलायुधः । अतो हेतोः सोऽतिथिः समेताभ्यां संगताभ्यामुभाभ्यां नीतिशौर्याभ्यां सिद्धिं जयप्राप्तिमन्वियेष गवेषितवान् । अन्वयः-केवला नीतिः कातर्यम् , केवलं शौर्य श्वापदचेष्टितम् “मतम्" अतः स समेताभ्याम् उभाभ्यां सिद्धिम् अन्वियेष ॥ व्याख्या केवला = एका पराक्रमशून्या नीयन्ते = उन्नीयन्ते कर्तव्यार्थाः अनया सा नीतिः = नयः ईषत्तरतोति कातरः तस्य भावः कातर्यम् = भीरुत्वम् उच्यते नीतिकारैरिति शेषः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy