SearchBrowseAboutContactDonate
Page Preview
Page 1272
Loading...
Download File
Download File
Page Text
________________ रघुवंशे यत् = वस्तु यस्मै जनाय ददौ = दत्तवान् तत् = दत्तं वस्तु न जहार =न जग्राह । इति तस्य व्रतमासीत् । किन्तु शत्रून् = अरीन् उद्धत्य = उत्खाय प्रतिरोपयन् =पुनः तद्राज्ये स्थापयन् व्रजन्ति =गच्छन्ति स्वर्गमनेनेति व्रतः। भन्नः = नष्टः व्रतः-नियमः यस्य स भग्नव्रतः अभतजातः । शत्रूणामुत्खातप्रतिरोपणे एव तस्य नियमो भग्नः, नत्वन्यस्मिन् विषये, इत्यर्थः । हिन्दी-राजा अतिथि जो बात कहते थे, वह मिथ्या नहीं होती थी। अर्थात् जो कहा उसे पूरा किया। और जो वस्तु दे दी, उसे फिर वे नहीं लेते थे। ऐसा राजा का नियम था। किन्तु शत्रुओं को उखाड़ कर उन्हें फिर उनके स्थान पर बैठाने के समय उनका यह नियम टूट जाता था । अर्थात् नियमभंग केवल यहीं होता था, और किसी भी विषय में नहीं ॥ ४२ ॥ वयोरूपविभूतीनामेकैकं मदकारणम् । तानि तस्मिन्समस्तानि न तस्योत्सिषिचे मनः ॥ ४३ ॥ वयोरूपविभूतीनां यौवनसौन्दर्यैश्वर्याणां मध्य एकैकं मदकारणं मदहेतुः । तानि मदकारणानि तस्मिन्राज्ञि समस्तानि मिलितानीति शेषः । तथापि तस्यातिथेर्मनो नोत्सिषिचे न जगर्व । सिञ्चतेः स्वरितेत्त्वादात्मनेपदम् । अत्र वयोरूपादीनां गर्वहेतुत्वान्मदस्य च मदिराकार्यत्वेनातत्कारकत्वान्मदशब्देन गवों लक्ष्यत इत्याहुः। उक्तंच-'ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि । इष्टलाभादिना ह्येषामवज्ञा गर्व ईरितः ॥ मदस्त्वानन्दसंमोहः संभेदो मदिराकृतः ।।' इति । अत एव कविनापि 'उत्सिषिचे' इत्युक्तम् । न तु 'उन्ममाद' इति ॥ अन्वयः–वयोरूपविभूतीनाम् एकैकं मदकारणम् , तानि तस्मिन् समस्तानि “मिलितानि सन्ति तथापि" तस्य मनः न उत्सिषिचे। व्याख्या-वयः = यौवनं रूपं =सौन्दर्य विभूतिः = ऐश्वर्यश्चैतेषां द्वन्द्वः वयोरूपविभूतयस्तासां वयोरूपविभूतीनां मध्ये एकैकं = प्रत्येकं मदस्य = गर्वस्य हेतुः= कारणांमति मदहेतुः भवतीति शेषः । तानि = यौवनसौन्दर्यैश्वर्याणि मदकारणानि तस्मिन् = राजनि, अतिथौ समस्तानि मिलितानि सन्ति यद्यपि, तथापि तस्य = अतिथेः मनः =चित्तं, मानसं न नहि उत्सिषिचे = गर्वितं बभूव । गर्वकारणसत्त्वेऽपि अतिथेः मनसि न गर्वलेशः, इत्यर्थः। समासः-वयश्च रूपञ्च विभूतिश्चेति वयोरूपविभूतयस्तासां वयोरूपविभूतीनाम् । मदस्य कारणमिति मदकारणम् । हिन्दी-जवानी सुन्दरता और ऐश्वर्य ( सम्पत्ति ) इनमें से एक-एक भी वस्तु घमण्ड का ( अहंकार का ) कारण होती है। अर्थात् इनमें एक भी जिस व्यक्ति में रहेगी उसे घमण्ड हो जाता है। किन्तु अतिथि में ये सभी कारण एकत्र थे। तो भी उसके मन में घमण्ड न था। विशेष—यहाँ पर यौवन सौन्दर्य तथा सम्पत्ति को गर्व का कारण होने से और मद ( नशा ) को मदिरा का कार्य होने से मद शब्द का लक्षणा से गर्व अर्थ है। इसीलिये कवि ने उत्सिषिचे कहा है न कि उन्ममाद ॥ ४३ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy