SearchBrowseAboutContactDonate
Page Preview
Page 1264
Loading...
Download File
Download File
Page Text
________________ ३९० रघुवंशे केशौ = पुत्रपौत्रौ स्तः अस्येति, केशवः। केशवस्य = विष्णोः इदं कैशवं वक्षः = उरस्थलम् इव = यथा शुशुभे = अशोभत । समासः-श्रिया युक्तो वत्सः श्रीवत्सः लक्षणं यस्य तत् श्रीवत्सलक्षणम् । मंगलस्य आयतनमिति मंगलायतनम् । हिन्दी-राजा अतिथि के बैठने से श्रीवत्स नामक चिह्नवाला तथा विशाल शुभ वह सभा भवन उसी प्रकार चमक उठा, जैसे कि कौस्तुभमणि से युक्त और दुर्वासा ऋषि के चरण के आघात से बने श्रीवत्स के चिह्न वाला विष्णु का वक्षस्थल चमक उठता है। दुर्वासा ऋषि के पादप्रहार से बना रेखाओं का चिह्न, और सुफेद रोम के बने आवर्त ( भौरी ) को श्रीवत्स कहते हैं ॥ २९ ॥ बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः । रेखाभावादुपारूढः सामग्रयमिव चन्द्रमाः ॥ ३० ॥ सोऽतिथिः कुमारत्वाद्वाल्याद् भूयो यौवराज्यमवाप्यैवानन्तरम् । अधिराजस्य भाव आधिराज्यं महाराज्यमवाप्य । रेखाभावादर्धेन्दुत्वमवाप्यैव सामग्रयमुपारूढः पूर्णतां गतश्चन्द्रमा इव बभो इति व्याख्यानम् । तदपि यौवराज्याभावनिश्चये ज्याय एव ।। अन्वयः-सः कुमारत्वात् भूयः आधिराज्यम् अवाप्य, रेखाभावात् सामग्र्यम् उपारूढः चन्द्रमा इव बभौ। व्याख्या-सः = अतिथिः कुमारयति = क्रीडतीति कुमारः। कुमारस्य भावः कुमारत्वं तस्मात् कुमारत्वात् = बालभावात् भूयः = पुनः भृशमित्यर्थः । अधिको राजा अधिराजस्तस्य भावः कर्म वा आधिराज्यं = महाराज्यम् अवाप्य = प्राप्य । कुमारावस्थानन्तरं युवा वयस्को भवति तदा युवराजो भवति, अर्थात् वयस्को यौवराज्येऽभिषिच्यते, किन्तु अतिथिस्तु यौवराज्यमप्राप्यैव महाराजत्वं प्राप्तवानित्यर्थः । अत्र मल्लिनाथव्याख्याख्याने यौवराज्यमवाप्यैवेति न सम्यक्पाठः। किन्तु अनवाप्येति मे प्रतिभातीति । एतदेव स्पष्टयति कविः स्वयम् रेखायाः= प्रथमकलायाःभावस्तस्मात् रेखाभावात् = रेखारूपात्, अर्धेन्दुत्वमप्राप्येवेत्यर्थः । समग्रस्य भावः सामग्र्यं तत् = पूर्णचन्द्रत्वं गतः =प्राप्तः चन्द्रमाः इव यथा बभौशुशुभे । - समासः-अधिको राजा अधिराजः तस्य भावः आधिराज्यम् , तत् । रेखायाः भावस्तस्मात् रेखाभावात्। हिन्दी-वह अतिथि कुमार अवस्था के पश्चात् तुरन्त महाराजा हो गया। याने उसे युवराज होने का अवसर पिता के मरने के कारण नहीं मिला। महाराज बन कर वह उसी प्रकार सुशोभित हुआ, जैसे कि-एक कला ( रेखामात्र दूज का ) चन्द्र, आधा हुए विना ही ( अष्टमी का हुए विना ही ) पूर्णता को प्राप्त हो गया हो। अर्थात्-एक कला का होकर तुरन्त सोलह कला का ( पूर्णिमा ) का हो गया हो ॥ ३० ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy