SearchBrowseAboutContactDonate
Page Preview
Page 1258
Loading...
Download File
Download File
Page Text
________________ ३८४ रघुवंशे अन्वयः–पञ्जरस्थाः शुकादयः अस्य क्रीडापतत्रिणः अपि तदादेशात् लब्धमोक्षाः सन्तः यथेष्टगतयः अभवन् । व्याख्या-पारस्थाः = शलाकानिर्मितबन्धनगृहस्थाः शुकः = कोरः आदिः येषां ते शुकादयः अस्य = राशः अतिथेः क्रीडार्थ = लीलार्थ पतत्त्रिणः- पक्षिणः इति क्रीडापतत्त्रिणः अपिकिमुतान्ये जीवा इत्यपिशब्दार्थः । तस्य = राज्ञः अतिथेः आदेशः = आशा इति तदादेशस्तस्मात् तदादेशात् लब्धः =प्राप्तः मोक्षः= पक्षरान्मोचनं यैस्ते लन्धमोक्षाः सन्तः इष्टमनतिक्रम्येति यथेष्टम् = इच्छानुसारं गतिः= गमनं येषां ते यथेष्टगतयः अभवन् = जाताः। समासः-क्रीडार्थ पतत्त्रिणः क्रीडापतत्त्रिणः। शुकः आदियेषां ते शुकादयः। लब्धः मोक्षः यस्ते लब्धमोक्षाः । तस्य आदेशस्तस्मात् । यथेष्टं गतिर्येषां ते यथेष्टगतयः । हिन्दी-राजा अतिथि की आज्ञा से पिञ्जरे में बन्द किए हुए, और राजा के मनोविनोद के लिये पाले हुए, सुग्गे आदि पक्षी भी छोड़ दिये गये, जो कि अपनी इच्छानुसार मनमाने उड़ने लगे ॥ २० ॥ ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचि । । सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः ॥ २१ ॥ ततः सोऽतिथिर्नेपथ्यग्रहणाय प्रसाधनस्वीकाराय। कक्ष्यान्तरं हाङ्गणविशेषः । 'कक्ष्या प्रकोष्ठे हादेः' इत्यमरः । तत्र न्यस्तं स्थापितं शुचि निर्मलं सोत्तरच्छदमास्तरणसहितं गजदन्तस्यासनं पोठमध्यास्त । तत्रोपविष्ट इत्यर्थः ॥ अन्वयः-ततः सः नेपथ्यग्रहणाय कक्ष्यान्तरन्यस्तं शुचि सोत्तरच्छदं गजदन्तासनम् अध्यास्त। व्याख्या-ततः = अनन्तरं सः=राजा अतिथिः नेपथ्यस्य प्रसाधनस्य ग्रहणं = स्वीकरणं तत्तदंगेषु धारणमित्यर्थः । तस्मै नेपथ्यग्रहणाय अन्या = अपरा कक्ष्या = हादेः प्रकोष्ठः, इति कक्ष्यान्तरं = प्रकोष्ठान्तरं तत्र न्यस्तं = स्थापितमिति कक्ष्यान्तरन्यस्तम् शुचि = शुद्धम् स्वच्छम् , उत्तराश्चसौ छदश्च उत्तरच्छदस्तम् = आस्तरणं तेन सहितमिति सोत्तरच्छदं गजानां = हस्तिनां दन्ताः = रदास्तैः निर्मितमासनं = पीठमिति गजदन्तासनम् अध्यास्त =अधितष्ठौ । हस्तिदन्तनिर्मितासने उपविष्ट इत्यर्थः । “कक्ष्या प्रकोष्ठे हादे:” “रदनाः दशना दन्ता रदाः" इति चामरः। अन्वयः-अन्या कक्ष्या कक्ष्यान्तरं तत्र न्यस्तमिति कक्ष्यान्तरन्यस्तं तत् । नेपथ्यस्य ग्रहणमिति तस्मै नेपथ्यग्रहणाय। उत्तरश्चासौ छदश्च उत्तरच्छदः तेन सहितमिति सोत्तरच्छदं तत् । गजानां दन्तैः कृतमासनं गजदन्तासनम् , तत् । हिन्दी-इसके पश्चात् राजा अतिथि वस्त्र और आभूषण ( राजसी ठाटबाट ) धारण करने
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy