SearchBrowseAboutContactDonate
Page Preview
Page 1252
Loading...
Download File
Download File
Page Text
________________ ३७८ रघुवंशे ते मन्त्रिणस्तस्यातिथेरभिषेकाय शिल्पिभिरुद्वद्युन्नतवेदिकं चतुःस्तम्भप्रतिष्ठितं चतुर्पु स्तम्भेषु प्रतिष्ठितं नवं विमानं मण्डपं कल्पयामासुः कारयामासुः ॥ अन्वयः–ते तस्य अभिषेकाय शिल्पिभिः उद्वेदि चतुःस्तम्भप्रतिष्ठितम् नवं विमानं कल्पयामासुः। व्याख्या-ते = वृद्धमंत्रिणः तस्य = कुशपुत्रस्यातिथेः अभिषेकाय = राज्यतिलकाय सिंहा. सनारोहणायेत्यर्थः। शिल्पमेषामस्तीति शिल्पिनः तैः शिल्पिभिः = कलाप्रवीणः उन्नता वेदिः= परिष्कृता भूमिः यत्र तत् उद्वेदि नवं = नूतनं विगतं मानम् = उपमा यस्य तत् विमानं मण्डपं चत्वारः स्तम्भाः= यूपाः इति चतुःस्तम्भाः चतुस्तम्मेषु प्रतिष्ठितं = तेषु सम्यग् वर्तमानम् कल्पयामासुः = विधापयामासुः।। समासः-उन्नता वेदिः यत्र तत् उद्वेदिं । विगतं मानं यस्य तत् विमानम् । चत्वारः स्तम्भाः चतुःस्तम्भाः, तेषु प्रतिष्ठितमिति चतुःस्तम्भप्रतिष्ठितम् तत् ।। ___हिन्दी--उन पुराने वृद्ध मंत्रियों ने अतिथि को राजतिलक करने के लिये चतुर कलाकारों से, चार खम्भों पर स्थित और ऊँची वेदि ( चबूतरे ) वाला नया मण्डप बनवाया ॥ ९ ॥ तत्रैनं हेमकम्भेषु सभृतैस्तीर्थवारिभिः । उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ॥ १० ॥ तत्र विमाने भद्रपीठे पीठविशेष उपवेशितमेनमतिथिं हेमकुम्मेषु संभृतैः संगृहीतैस्तीर्थवारिभिः करणैः प्रकृतयो मन्त्रिण उपतस्थुः ॥ अन्वयः-तत्र भद्रपीठोपवेशितम् एनं हेमकुम्भेषु सम्भृतैः तीर्थवारिभिः प्रकृतयः उपतस्थुः । व्याख्या-तत्र = नूतने मण्डपे भद्रं च तत् पीठम् = आसनं तस्मिन् उपवेशितः=उपविष्टस्तं भ्रद्रपीठोपवेशितम् =नृपासनोपविष्टम् एनम् =अतिथिम् हेम्नः = सुवर्णस्य कुम्भाः कलशास्तेषु हेमकुम्भेषु सुवर्णनिर्मितकलशेष्वित्यर्थः। संभृतैः = संगृहीतैः तीर्थानां = काशीप्रयागा. दीनां वारीणि = जलानि तैः तीर्थवारिभिः = पवित्रसलिलैरित्यर्थः। प्रकृतयः= अमात्यादयः उपतस्थुः =अभिषेकं चक्रुरित्यर्थः। __ समासःहेम्नः कुम्भाः हेमकुम्भास्तेषु हेमकुम्मेषु। तीर्थस्य वारीणि तैः तीर्थवारिभिः । भद्रं च तत् पीठमिति भद्रपीठं तत्र उपवेशितस्तं भद्रपीठोपवेशितम् । हिन्दी-उस मण्डप में राजसिंहासन पर बैठे हुए, राजा अतिथि का सोने के कलशों (घड़ों ) में भरे हुए, पुण्य तीर्थ के जल से मंत्री एवं प्रजा ने अभिषेक किया ॥ १० ॥ नदद्भिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः । अन्वमीयत कल्याण तस्याविच्छिन्नसंतति ॥ ११ ॥ आहतं पुष्करं मुखं येषां तैः । 'पुष्करं करिहस्ताग्रे वायभाण्डमुखेऽपि च' इत्यमरः । स्निग्धं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy