SearchBrowseAboutContactDonate
Page Preview
Page 1242
Loading...
Download File
Download File
Page Text
________________ ३६८ रघुवंशे तदेतदाभरणमाजानु विलम्बिना दीण । ज्याघातेन या रेखा रेखाकारा ग्रन्थयस्तासां किणं चिह्न तदेव लाञ्छनं यस्य तेन । भूमे रक्षायाः परिघेण रक्षार्गलेन। 'परिघो योगमेदारूमुद्गरेऽर्गलघातयोः' इत्यमरः । अंसलेन बलवता ते भुजेन पुनर्योगं संगतिमुपैतु । एतैविशेषणैर्महाभाग्यशौर्यधुरंधरत्वबलवत्त्वादि गम्यते ॥ अन्वयः-तत् एतत् आजानुलाम्बिना ज्याघातरेखाकिणलान्छनेन भूमेः रक्षापरिघेण ते अंसलेन भुजेन पुनः योगम् उपैतु । व्याख्या-तत् = प्रसिद्धम् एतत् = आभरणम् जायते इति जानु जानु = ऊरुपर्व-ऊरुजंघयोरूध्वभागम् इत्यर्थः। अभिव्याप्य इति आजानु = जानुपर्यन्तं लम्बते इति आजानुलम्बी तेनआजानुलम्बिना दीघेणेत्यर्थः । ज्यायाः=मौाः आघातः=प्रहारः तेन याः रेखाः = रेखाकाराः ग्रन्थयः इति ज्याघातरेखास्तासां किणं चिह्न तदेव लाञ्छनं = लक्ष्म यस्य स तेन ज्याघातरेखाकिणलाञ्छनेन भूमेः पृथिव्याः रक्षायाः = पालनस्य परिघः= अर्गला तेन रक्षापरिघेण ते तव कुशस्य अंसः=बलमस्यास्तोति अंसलस्तेन अंसलेन भुजेन=बाहुना पुनः भूयः योग = संयोगम् ऊपैतु = प्राप्नोतु, तव भुजेनैव संगच्छताम् इत्यर्थः । समासः-आजानु लम्बी तेन आजानु लाम्बिना। ज्यायाः आघातस्तेन याः रेखारतासां किणं तदेव लाञ्छनं, यस्य स तेन ज्याघातरेखाकिणलाञ्छनेन । रक्षायाः परिघस्तेन रक्षापरिघेन । हिन्दी-वह प्रसिद्ध जिताने वाला आभूषण यह है इसे लीजिये। यह फिर आपकी बलवान भुजा से ही संयुक्त रहे। अर्थात् आप ही हाथ में इसे फिर पहने। जो आप की भुजा घुटने तक लम्बी, तथा धनुष की डोरी की रगड़ से जिसमें घट्ठों के निशान हैं और पृथिवी की रक्षा की अर्गला ( जंजीर ) हैं । रक्षा में लोहे की अर्गला के समान मजबूत है ॥ ८४ ।। इमां स्वसारं च यवीयसी मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदती चिराय शुश्रूषया पार्थिव पादयोस्ते ॥ ८५ ॥ किंच । हे पार्थिव, ते तव पादयोश्चिराय शुश्रूषया परिचर्यया । 'शुश्रूषा श्रोतुमिच्छायां परिचर्याप्रदानयोः' इति विश्वः । आत्मापराधमाभरणग्रहणरूपं नुदतीम् । परिजिहीर्षन्तीमित्यर्थः । 'आशंसायां भूतवच्च' इति चकराद्वर्तमानार्थे शतृप्रत्ययः । 'आच्छीनद्योर्नुम्' इत्यस्य वैकल्पिकत्वान्नुमभावः । इमां मे यवीयसी कनिष्ठां स्वसारं भगिनी कुमुदतीमनुमन्तुं नाहसीति न । अर्हस्येवेत्यर्थः॥ अन्वयः-हे पार्थिव ! ते पादयोः चिराय शुश्रूषया आत्मापराधं नुदतीम् इमां मे यवीयसी स्वसारं कुमुद्वतीम् न अनुमन्तुं न अर्हसि । ___ व्याख्या-पृथिव्याः ईश्वरः पार्थिवस्तत्संबुद्धौ हे पार्थिव = हे राजन् ! ते = तव पादयोः= चरणयोः चिराय= चिरकालपर्यन्तं शुश्रूषणं शुश्रूषा तया शुश्रूषया = परिचर्यया-सेवया, इत्यर्थः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy