SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ षोडशः पुर्गः ३६५ हिन्दी-मथन किए गये समुद्र से लक्ष्मी के साथ जैसे देवराज इन्द्र का वृक्ष पारिजात ( कल्प वृक्ष ) एकाएक ऊपर निकल आया था, उसी प्रकार मथन से जिसके मगरमच्छ आदि जलजन्तु घबरा गए थे, ऐसे उस सरयू नदी के गहरे जल से अपनी बहन को आगे करके वह नागराज कुमुद जल से बाहर झटपट निकल आया ।। ७९ ।। विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशां पतिस्तम् । सौपर्णमस्त्रं प्रतिसंजहार प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥ १० ॥ विशां पतिर्मनुजपतिः कुशः। 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः। विभूषणं प्रत्युपहरति प्रत्यर्पयतीति विभूषणप्रत्युपहारः। कर्मण्यण् । विभूषणप्रत्युपहारो हस्तो यस्य तम् । उपस्थितं प्राप्तं तं कुमुदं वीक्ष्य सौपर्ण गारुत्मतमस्त्रं प्रतिसंजहार । तथाहि । सन्तः प्रज्ञेषु नम्रेष्वनिर्बन्धरुषोऽनियतकोपा हि ॥ अन्वयः-विशाम्पतिः विभूषणप्रत्युपहारहस्तम् उपस्थितं तं वीक्ष्य, सौपर्णम् अस्त्रं प्रतिसंजहार । हि सन्तः प्रहेषु अनिर्बन्धरुषः, भवन्ति । व्याख्या-विशां = मनुष्याणां पतिः = स्वामी कुशः = रामपुत्रः “विट् स्मृतो वैश्यमनुजप्रवेशेषु मनीषिभिरि'ति मेदिनी। विभूषणम् = अलौकिकमाभरणं प्रत्युपहरति = प्रत्यर्पयति यः स विभूषणप्रत्युपहारः, विभूषणप्रत्युपहारः हस्तः=करः यस्य स विभूषणप्रत्युपहारहस्तस्तं विभूषणप्रत्युपहारहस्तम् उपस्थितं समीपागतं तं = कुमुदनामानं नागं वीक्ष्य = अवलोक्य कनकमयत्वात्। सुवर्णवर्णत्वाद्वा शोभते पणे = पक्षौ यस्य स सुपर्णः, सुपर्णस्येदं सौपर्ण = गारुत्मतम् अस्त्रं = बाणं प्रतिसञ्जहार = उपसंहृतवान् । हि-यतःसन्तः =सज्जनाः प्रज्ञेषु = नम्रीभूतेषु न निर्बन्धः= न आग्रहः यस्यां सा अनिर्बन्धा = दुराग्रहहीना रुट् = कोपः येषां ते अनिर्बन्धरुषः भवन्तीति शेषः। समासः-विभूषणस्य प्रत्युपहारः हस्ते यस्य स तं विभूषणप्रत्युपहारहस्तम् । अनिर्बन्धा रुट येषां ते अनिर्बन्धरुषः। हिन्दी-दिव्य आभूषण रूपी प्रत्युपहार ( बदले की भेंट ) को हाथ में लेकर उपस्थित हुए उस नाग को देखकर राजा कुश ने गारुड अस्त्र को उतार लिया (धनुष की डोरी से उतार कर तरकश में रख लिया )। यह उचित ही किया। क्योंकि सज्जन लोग नम्र होकर आये हुए लोगों के प्रति अनियत क्रोध वाले होते हैं । अर्थात् क्रोध का त्याग कर देते हैं ॥८॥ त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामकुशमस्त्रविद्वान् । मानोन्नतेनाप्यमिवन्ध मूर्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥ ८१ ॥ अस्त्रं विद्वानस्त्रविद्वान् । 'न लोक-' इत्यादिना षष्ठीसमासनिषेधः । 'द्वितीया श्रित-' इत्यत्र गम्यादीनामुपसंख्यानाद् द्वितीयेति योगविभागाद्वा समासः। गारुडास्त्रमहिमाभिज्ञ इत्यर्थः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy