SearchBrowseAboutContactDonate
Page Preview
Page 1235
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः व्याख्या-असौ =राजा कुशः दारैः = अन्तःपुरसुन्दरीभिः सहितः सदारः सन् कामम् = इच्छामनतिक्रम्य यथाकामं = यथेष्टं स्नात्वा = जलविहारं कृत्वा तीरे = तटे या उपकार्या = उपकारिका तां तीरोपकार्यां = तटे निर्मितपटगृहं गत एवेति गतमात्र:=प्राप्तमात्र एव अपोढः= निरस्तः, अकृत इत्यर्थः नेपथ्यस्य = वेषस्य विधिः = विधानं, धारणमिति यावत् , येन सः अपोढनेपथ्यविधिः एव ( अपपूर्वात् वह प्रापणे, धातोः क्त प्रत्यये अपोढः ) दिवि भवं दिव्यं तेन दिव्येन = अलौकिकेन वलयेन = कङ्कणेन, अगस्त्यदत्ताभरणेनेत्यर्थः । शून्यं =रिक्तं बाहुं = भुजं ददर्श = दृष्टवान् । समासः-दारैः सहितः सदारः । काममनतिक्रम्य यथाकामम् । तीरे उपकार्या तां तीरोपकार्याम् । गत एवेति गतमात्रः। अपोढः नेपथ्यस्य विधिर्येन स अपोढनेपथ्यविधिः । हिन्दी-वह राजा कुश रानियों के साथ इच्छानुसार जलविहार करके, तीर पर बने कपड़े के राजमहल में ज्यों ही पहुँचा, कि वस्त्र आभूषण पहनने के पहले ही उसने दिव्य आभूषण से खाली अपनी भुजा को देखा ॥ ७३ ॥ जयश्रियः संवननं यतस्तदामुक्तपूर्व गुरुणा च यस्मात् । सेहेऽस्य न भ्रशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः ॥ ७४ ॥ यतः कारणात्तदाभरणं जयश्रियः संवननं वशीकरणम् । 'वशक्रिया संवननम्' इत्यमरः। यस्माच्च गुरुणा पित्रा आमुक्तपूर्व पूर्वमामुक्तम् । धृतमित्यर्थः। सुप्सुपेति समासः। अतो हेतोरस्याभरणस्य भ्रंशं नाशं न सेहे। लोभान्न । कुतः। हि यस्माद्धीरो विद्वान्स कुशस्तुल्यानि पुष्पाण्याभरणानि च यस्य सः । पुष्पेष्विवाभरणेषु धृतेषु निर्माल्यबुद्धिं करोतीत्यर्थः ॥ अन्वयः–यतः तत् जयश्रियः संवननं, यस्मात् च गुरुणा आमुक्तपूर्वम् , अतः अस्य भ्रंशं न सेहे लोभात् न, सहि-धीरः तुल्यपुष्पाभरणः ( आसीत् )। व्याख्या-यतः= यस्मात्कारणात् तत् =भूषणं जयस्य = विजयस्य श्रीः= लक्ष्मीः तस्याः जयश्रियः संवननं = वशीकरणं 'वशक्रिया संवननमि'त्यमरः । यस्मात् - कारणाच्च गुरुणा= पित्रा रामचन्द्रेण पूर्व प्रथमम् आमुक्तं = पिनद्धमिति तत् आमुक्तपूर्व पूर्वधृतमित्यर्थः। अतः= हेतोः अस्य = दिव्याभरणस्य भ्रंशं = पातं न सेहे =न सोढवान् । लोभात् = अतितृष्णया न= नहि । कस्मात्-इत्याह हिस धीरः विद्वान् सन् कुशः तुल्यानि =समानानि पुष्पाणि = कुसुमानि आभरणानि = भूषणानि च यस्य स तुल्यपुष्पाभरणः अर्थात् तस्य कृते यथा पुष्पाणि तथैव आभरणानि, निर्माल्यसदृशानीत्यर्थः । समासः-जयस्य श्रीः जयश्रीः तस्या जयश्रियः। पूर्वमामुक्तम् इति आमुक्तपूर्वम् । तुल्यानि पुष्पाणि आभरणानि च यस्य स तुल्यपुष्पाभरणः । - हिन्दी-वह आभरण विजयलक्ष्मी का वशीकरण करने वाला था, पिता जी का धारण किया हुआ था, इस कारण कुश उस भूषण के नाश (गिरकर खो जाने) को सहन न कर सका । न कि
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy