SearchBrowseAboutContactDonate
Page Preview
Page 1233
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः ३५९ नानि यासां ताः आयताक्ष्यः ताः अन्तःपुरसुन्दर्यः काञ्चते =दीप्यते इति काञ्चनं काञ्चनस्य = सुवर्णस्य शृंगाणि = शिखराणि, काञ्चनशृंगाणि तैः मुक्तानि = त्यक्तानि प्रक्षिप्तानीत्यर्थः, तैः काञ्चनभंगमुक्तैः वर्णैः = कुंकुमकेसरादिभिः मिलितानि यानि उदकानि =जलानि तैः वर्णोदकैः शाकपार्थिवादित्वात् समासः। प्रणयात् =स्नेहात् असिञ्चन् = सिञ्चन्ति स्म । तथा =तं प्रकारं गतः = प्राप्तः इति तथागतः = कुंकुमकेसरमिश्रितजलेन सिक्तः इत्यर्थः। सः= कुशः धातूनां= गैरिकादिद्रव्याणां निष्यन्दः = स्रावः क्षरणं तेन सह वर्तमानः सथातुनिष्यन्दः=गैरिकभरणयुक्त इत्यर्थः अद्रीणां पर्वतानां राजा अद्रिराजः हिमालय इव = यथा अतितराम् =अतिशयेन बभासे= दिदीपे। समासः-आयतानि अक्षीणि यासां ताः आयताक्ष्यः। काञ्चनस्य शृंगाणि तैः मुक्तानि तैः काञ्चनशृंगमुक्तः। वर्णैः मिश्रितानि उदकानि तैः वर्णोदकैः। अद्रोगां राजा अद्रिराजः । धातूनां निष्यन्देन सहितः सधातुनिष्यन्दः। हिन्दी-बड़ी बड़ी आँखों वाली उन रानियों ने केसर कुंकुमादि मिले जल से ( पिचकारियों से ) राजा कुश को भिगो दिया। भीगे हुए रंगविरंगे महाराज कुश उसी प्रकार अत्यधिक सुन्दर लग रहे थे जैसे कि सोने के शिखरों से गिरते हुए अनेक रंग के जल से गेरू आदि द्रव्यों से युक्त पर्वत राज हिमालय हो। अर्थात् जिसके ऊँचे-ऊँचे गेरू आदि के झरने बहते हो ऐसे हिमालय के समान सुशोभित हो रहे थे ॥ ७० ॥ तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिवृतो मरुत्वाननुयातलीलः ॥ ७१ ॥ अवरोधप्रमदासखेनान्तःपुरसुन्दरीसहचरेण तां सरिद्वरां सरयूं विगाहमानेन तेन कुशेना. काशगङ्गायां रतिः क्रीडा यस्य सोऽप्सरोभिर्वृत आवृतो मरुत्वानिन्द्रोऽनुयातलीलोऽनुकृतश्रीः। अभूदिति शेषः । इन्द्रमनुकृतवानित्यर्थः ॥ अन्वयः-अवरोधप्रमदासखेन तां सरिद्वरां विगाहमानेन तेन, आकाशगंगारतिः अप्सरोभिः वृतः मरुत्वान् अनुयातलीलः। व्याख्या-अवरोधस्य = अन्तःपुरस्य प्रमदाः= स्त्रियः इति अवरोधप्रमदाः तासां सखा = मित्रं तेन अवरोधप्रमदासखेन तां= प्रसिद्धां सरित्सु = नदीषु वरा = श्रेष्ठा तां सरिद्वरां = सरयू विगाहतेऽसौ विगाहमानस्तेन विगाहमानेन = तेन राज्ञा कुशेन आकाशे वियति गंगा= नदी इति आकाशगंगा = मन्दाकिनी तस्यां रतिः=क्रीडा यस्य स आकाशगंगारतिः, अद्भयः सरन्तीति अप्सरसस्ताभिः अप्सरोभिः= स्वर्वेश्याभिः वृतः = आवृतः, मरुतः सन्ति अस्यासौ मरुत्वान् = इन्द्रः अनुयाता= अनुकृता लीला =श्रीः येन स अनुयातलीलः अभूदिति शेषः । अप्सरोभिः सह मन्दाकिन्यां विहरन्तमिन्द्रमनुकरोदित्यर्थः।। समासः–अवरोधस्य प्रमदास्तासां सखा तेन अवरोधसखेन। सरित्सु वरा तां सरिद्वराम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy