SearchBrowseAboutContactDonate
Page Preview
Page 1225
Loading...
Download File
Download File
Page Text
________________ . षोडशः सर्गः ३५१ अन्वयः–नौलुलिताभिः अद्भिः अन्तःपुरसुन्दरीणां यदञ्जनं विलुप्तम् तदञ्जनं विलोचनेषु मदरागशोभा बनतीभिः अद्भिः आसां प्रतिमुक्तम् । व्याख्या-नावा = नौकया लुलिताः = क्षुभिताः सञ्चालिता इत्यर्थः। ताभिः नौलुलिताभिः अद्भिः = जलैः अन्तः = अभ्यन्तरे पुरं = गृहमिति अन्तःपुरम् , अन्तःपुरस्य = शुद्धान्तस्य सुन्दर्यः = स्त्रियस्तासाम् अन्तःपुरसुन्दरीणाम् यत् अञ्जनं = कज्जलं विलुप्तं = हृतं तत् = अञ्जनं विलोचनेषु = नेत्रेषु मदेन = मद्येन यो रागः = रक्तिमा तस्य शोभा = कान्तिः तां मदरागशोभां बनतीभिः = घटयन्तीभिः अद्भिः = जलैः आसां = सुन्दरीणां प्रतिमुक्तं = प्रत्यर्पितम् । __ समासः-अन्तःपुरस्य सुन्दर्यः तासाम् अन्तःपुरसुन्दरीणाम् । नावा लुलितास्ताभिः नौलुलिताभिः । मदेन यः रागः मदरागस्तेन या शोभा तां मदरागशोभाम् । हिन्दी-नावों से टकराने से हिलते उछलते जल से ( नाव के चलने से उठती तरंगों से ) अन्तःपुर की सुन्दरियों की आँखों का जो काजल धुल गया था, उसके बदले में इनकी आँखों में मदपान के समय की लालिमा की शोभा को बढ़ाने वाले जल ने फिर उसे लौटा दिया। अर्थात् काजल की जगह लाली भर दी ॥ ५९ ॥ एता गुरुश्रोणिपयोधरत्वादात्मानमुद्रोढुमशक्नुवत्यः । गाढाङ्गदेबहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ ६ ॥ गुरु दुर्वहं श्रोणिपयोधरं यस्यात्मन इति विग्रहः। गुरुश्रोणिपयोधरत्वादात्मानं शरीरमुद्रोढुमशक्नुवत्य एता बाला गाढाङ्गदैः श्लिष्टाङ्गदैर्बाहुभिः क्लेशोत्तरं दुःखप्रायं यथा तथा रागवशाक्रीडाभिनिवेशपारतन्त्र्यात्मवन्ते तरन्ति ॥ अन्वयः-गुरुश्रोणिपयोधरत्वात् आत्मानम् उद्बोढुम् अशक्नुवत्यः एताः बालाः गाढांगदैः बाहुभिः अप्सु क्लेशोत्तरं यथा स्यात्तथा रागवशात् लवन्ते । व्याख्या-श्रोणयः= कट्यश्च पयोधराः = स्तनाश्चेति द्वन्द्वः श्रोणिपयोधरम् , गुरु = महत्, दुःखेन वोढुं शक्यमित्यर्थः, श्रोणिपयोधरं यस्य सः, तस्य भावः गुरुश्रोणिपयोधरत्वं तस्मात् गुरुश्रोणिपयोधरत्वात् आत्मानं = स्वशरीरम् उदोढुं = धारयितुं, वहन कर्तुमित्यर्थः अशक्नुवत्यः = असमर्थाः एताः =पुरोदृश्यमानाः बालाः = तरुण्यः गाढानि = श्लिष्टानि दृढानि इत्यर्थः, अंगदानि = केयूराणि येषां ते तैः गाढांगदैः बाहुभिः = भुजैः अप्सु =जलेषु क्लेशः = दुःखम् उत्तरम् = प्रायः यस्मिन् कर्मणि तत् क्लेशोत्तरं यथा स्यात्तथा रागस्य = जलक्रीडाभिलाषस्य वशः अभिनिवेशः = पारतन्त्र्यमित्यर्थः, तस्मात् रागवशात् लवन्ते = तरन्ति । असामर्थ्येऽपि जलविहाराभिनिवेशात् एतास्तरन्तीत्यर्थः । समासः-श्रोणयश्च पयोधराश्चेति श्रोणिपयोधरम् । प्राण्यंगत्वादेकवद्भावः । गुरु श्रोणिपयोधरं यस्य स, तस्य भावस्तत्त्वं तस्मात् गुरुश्रोणिपयोधरत्वात् । न शक्नुवत्यः अशक्नुवत्यः । गाढानि अंगदानि येषां ते तैः गाढाङ्गदैः। रागस्य वशस्तस्मात् रागवशात् । क्लेशः उत्तरं यस्मिन् कर्मणि तत् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy