SearchBrowseAboutContactDonate
Page Preview
Page 1223
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः ३४६ सा सरित्सरयूस्तीरसोपानपथेनावतारादन्योन्यं केयूरविघट्टिनीभिः संनद्धाङ्गदसंघषिणीभिः सनूपुरक्षोभाणि सनूपुरस्खलनानि पदानि यासां ताभिरङ्गनाभिर्हेतुभिरुद्विग्नहंसा भीतहंसाऽऽसीत् ॥ अन्वयः-सा सरित् तीरसोपानपथावतारात् अन्योऽन्यकेयूरविघट्टनीभिः सनूपुरक्षोभपदाभिः अंगनाभिः उद्विग्नहंसा आसीत् । व्याख्या-सा = प्रसिद्धा सरित् = सरयू:= नदी सह =विद्यमानः उप = उपरि आतः = गमनं येन तत् सोपानम्। सोपानानाम् = आरोहणानां पन्थाः = मार्गः, इति सोपानपथः, तीरस्य = तटस्य सोपानपथस्तेन तीरसोपानपथेन अवतारः= अवतरणं तस्मात् तीरसोपानपथावतारात् अवतरणादित्यर्थः । के= बाहुशिरसि यौतीति केयूरम् । अन्योन्यं = परस्परं केयूराणि = अंगदानि विवयितुं = संवर्षितुं शीलं यासां ताः, ताभिः अन्योन्यकेयूरविघट्टिनीभिः, नूपुराणां = मञ्जीराणां क्षोभः=संचलनमिति नूपुरक्षोभः, नूपुरक्षोभेण सहितानि पदानि = चरणानि यासां ताः ताभिः सनूपुरक्षोभपदाभिः । अंगनाभिः =सुन्दरीभिः (हेतुभिः ) उद्विग्नाः = भीताः हंसाः = श्वेतगरुतः यस्याः सा उद्विग्नहंसा आसीत् = जाता। समासः-सोपानानां पन्थाः सोपानपथः, तीरस्य सोपानपथः तीरसोपानपथस्तेन अवतरणं तस्मात् तीरसोपानपथावतारात् । अन्योन्यं केयूराणां विघट्टिन्यस्ताभिः अन्योन्यकेयूरविघट्टिनीभिः । नूपुराणां क्षोभः नूपुरक्षोभः, तेन सह वर्तमानानि पदानि यासां ताभिः सनूपुरक्षोभपदाभिः । उद्विग्नाः हंसाः यस्यां सा उद्विग्नहंसा। हिन्दी-तीरे की सीढ़ियों के मार्ग से जल में उतरने के कारण जिनके बाजूबन्द आपस में रगड़ खाकर शब्द करने लगे, तथा उन पैरों की बिछुवे झनकार उठे, ऐसी कुश की रानियों के कारण सरयू नदी के हंस चञ्चल हो गये ॥ ५६ ॥ परस्पराभ्युक्षणतत्पराणां त.सां नृपो मज्जनरागदर्शी । नौसंश्रयः पार्श्वगतां किरातीमुपात्तबालव्यजनां बभाषे ॥ ५७ ॥ नौसंश्रयः परस्परमभ्युक्षणे सेचने तत्पराणामासक्तानां तासां स्त्रीणां मज्जने रागोऽभिलाषस्तद्दशी नृपः पार्श्वगतामुपात्तबालव्यजनां गृहीतचामरां किराती चामरग्रहिणीं बभाषे । 'किरातस्तु द्रुमान्तरे । स्त्रियां चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः ॥' इति केशवः ॥ अन्वयः-नौसंश्रयः परस्पराभ्युक्षणतत्पराणां तासां मज्जनरागदी नृपः पार्श्वगताम् उपात्तबालव्यजनां किराती बभाषे । ___ व्याख्या-नौः = नौका संश्रयः=आश्रयः यस्य स नौसंश्रयः = नौकायामुपविष्ट इत्यर्थः । परस्परम् = अन्योन्यं यदभ्युक्षणं = सेचनं मार्जनं तस्मिन् तत्पराः = संलग्नास्तासां परस्पराभ्युक्षणतत्पराणां, परस्परस्योपरि जलप्रक्षेपणे आसक्तानामित्यर्थः । तासां = नृपांगनानां मज्जने = उन्मज्जने = स्नाने रागः = अभिलाषः, तं द्रष्टुं शीलमस्य स मज्जनरागदर्शी नृपः =राजा कुशः पावें = निजसमीपे गता = प्राप्ता स्थिता तां पार्श्वगताम् , उपात्तं = गृहीतं बालव्यजनं चामरं = ययासा ताम् उपात्तबालव्यजनां किराती = चामरग्राहिणीं बभाषे = उक्तवान् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy