SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ८४ रघुवंशमहाकाव्ये वाच्य०-निमित्तजन, तपोनिधिना, आशंसितावन्ध्यप्रार्थना, याज्यः, पुनः, मोच्यत । व्याख्या-निमित्तम् = शकुनम्, जानाति= वेत्ति इति निमित्तज्ञः, तपसाम् = तपश्चर्याणाम्, निधिः= आकरः इति तपोनिधिः पुण्यम् = पवित्रम्, दर्शनम् = साक्षात्कारः यस्याः सा पुण्यदर्शना ताम्, ताम् = नन्दिनीम्, दृष्ट्वा = अवलोक्य, न वन्ध्यम् विफलम् इत्यवन्ध्यम् अवन्ध्यं च तत्प्रार्थनम् =याच्या इति, अवन्ध्यप्रार्थनम्, आशंसिते = मनोरथे अवन्ध्यप्रार्थनम् यस्य सः आशंसितावन्ध्यप्रार्थन: तम् आशंसितावन्ध्यप्रार्थनम्, याजयितुम् = यज्ञं कारयितुम् योग्यः याज्यः तम् याज्यम् राजानं दिलीपमित्यर्थः, पुनः = भूयः, अब्रवीत् = उवाच । ___ समा०-निमित्तम जानाति इति निमित्तज्ञः। तपसाम् निधिः तपोनिधिः। पुण्यम् दर्शनम् यस्याः सा पुण्यदर्शना ताम् पुण्यदर्शनाम् । न वन्ध्यम् अवन्ध्यम्, अवन्ध्यम् च तत्प्रार्थनम्, अवन्ध्यप्रार्थनम्, आशंसिते अवन्ध्यप्रार्थनम् यस्य सः आशंसितावन्ध्यप्रार्थनः, तम् आशंसितावन्ध्यप्रार्थनम् । याजयितुम् योग्यः याज्यः,तम् याज्यम् । ___ अभि०-शकुनमर्मविद्वसिष्ठो मुनिरागतां नन्दिनीं दृष्ट्वा सफलप्रार्थनावन्तं भूयोऽपि दिलीपमुवाच । हिन्दी--शकुनशास्त्र के विद्वान् वसिष्ठ मुनि आई हुई पवित्रदर्शना नन्दिनी को देखकर सफलमनोरथ होनेवाले राजा दिलीप से पुनः बोले ।।८।। अदूरवर्तिनी सिद्धिं राजन्विगणयात्मनः। उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥८॥ सञ्जीविनी--हे राजन् ! आत्मन: कार्यस्य सिद्धिमदूरवर्तिनी शीघ्रभाविनी विगणय विद्धि । यद्यस्मात्कारणात्कल्याणी मङ्गलमूर्तिः । 'बह्वादिभ्यश्च' इति डीए । इयं धेनुर्नाम्नि कीर्तिते कथिते सत्यवोपस्थिता ॥७॥ अन्वयः-राजन्, आत्मनः, सिद्धिम्, अदूरवतिनीम्, विगणय, यत्, इयम्, कल्याणी, नाम्नि, कोतिते, एव उपस्थिता। वाच्य-त्वया, पात्मनः, सिद्धिः, अदूरवर्तिनी, विगण्यताम्, यत्, अनया, कल्याण्या, उपस्थितया, अभूयत ।। व्याख्या--राजन =नप, आस्मत:=स्वस्य, सिद्धिम् = मनोरथ निष्पत्तिम. न, दूरे=विप्रकृष्टदेशे, विलम्बे इत्यर्थः, वर्तते तच्छीला, अदूरवर्तिनी, ताम् अदूर
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy