SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः ३४५ अन्वयः–वसन्तात्ययमन्दवीर्यः कामः स्नानाद्रमुक्तेषु अनुधूपवासं विन्यस्तसायंतनमल्लिकेषु अंगनानां केशेषु बलं लेभे । व्याख्या--वसन्त्यत्र मदनोत्सवाः इति वसन्तः। वसन्तस्य = पुष्पसमयस्य, कामसहकारिणः इत्यर्थः। अत्ययः = अतिक्रमः, इति सन्तात्ययस्तेन मन्दं = शिथिलं वीर्य = बलं यस्य स वसन्तात्ययमन्दवीर्यः कामः =मदनः स्नानेन = आसवेन आर्द्राः = क्लिन्नाश्च ते मुक्ताः=धूपसञ्चरणार्थ बन्धरहिताश्च, धूपयतीति धूपः, धूपस्य वासः धूपवासः धूपवासस्य = सुगन्धसंचारणस्य पश्चात् अनुधूपवासं =धूपसञ्चारणानन्तरम् विन्यस्ताः- निक्षिप्ताः, संबद्धाः सायंतन्यः = सायंभवाः मल्लिकाः येषु ते तेषु विन्यस्तसायंतनमल्लिकेषु अंगनानां = कामिनीनां केशेषु = कचेषु बलं = पराक्रमं लेभे = प्राप । सुधूपितैः असंयतैः केशैः उद्दीपितः इत्यर्थः । समासः-स्नानेन आर्दाश्च ते मुक्ताश्च, तेषु स्नानाद्रमुक्तेषु । धूपवासस्य पश्चात् इति अनुधूपवासम् । विन्यस्ताः सायन्तन्यो मल्लिकाः येषु ते तेषु । वसन्तस्य अत्ययः वसन्तात्ययस्तेन मन्दं वीर्य यस्य स वसन्तात्ययमन्दवीर्यः । हिन्दी-“अपने सहकारी" वसन्त के बीत जाने के कारण मन्द पड़े कामदेव ने सुन्दरियों के उन केशों में 'जाकर' बल ( सामर्थ्य ) पा लिया, जो कि स्नान करने से गीले और खुले हुए थे, और उनमें धूप से सुगन्धित करने के पश्चात् साम को खिलने वाली चमेली के फूल गुंथे हुए थे। अर्थात् सुन्दरियों के सुवासित एवं फूलों से भरे केशों को देखकर कामोद्दीपन होता था ॥ ५० ॥ आपिञ्जरा बद्धरज कणत्वान्मायुदाग शुशुभेऽजुनस्य । दग्ध्वापि देहं गिरिशेन रोषाखण्डीकृता ज्येव मनोभवस्य ॥ ५१ ॥ बद्धरजःकणत्वाद् व्याप्तरजःकणत्वादापिञ्जरोदारा द्राधीयस्यर्जुनस्य ककुभवृक्षस्य। 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । मञ्जरी । देहं दग्ध्वापि रोषाद्विरिशेन गिरिरस्त्यस्य निवासत्वेन गिरिशस्तेन । लोमादित्वाच्छप्रत्ययः । गिरौ शेत इति विग्रहे तु 'गिरौ शेतेर्डः' इत्यस्य छन्दसि विधानाल्लोके प्रयोगानुपपत्तिः स्यात् । तस्मात्पूर्वोक्तमेव विग्रहवाक्यं न्याय्यम् । खण्डीकृता मनोभवस्य ज्या मौर्वीव । शुशुभे ॥ अन्वयः-बद्धरजःकणत्वात् आपिञ्जरा उदारा अर्जुनस्य मञ्जरी देहं दग्ध्वा अपि रोषात् गिरिशेन खण्डीकृता मनोभवस्य ज्या इव शुशुभे । ग्याख्या-बद्धाः = व्याप्ताः रजसः = परागस्य कणाः = लवाः यस्यां सा बद्धरजःकणा, तस्याः भावः बद्धरजःकणत्वं तस्मात् वद्धरजःकणत्वात् आपिञ्जरा = ईषत्पीतवर्णा उदारा = महतोअर्जुनस्य = ककुभवृक्षस्य मञ्जरीवल्लरी देहं =शरीरं कामस्येत्यर्थः दग्ध्वा = दहनं कृत्वापि रोषात् = क्रोधात् गिरिः हिमालयः अस्ति अस्य निवासत्वेनासौ गिरिशस्तेन गिरिशेन = शिवेन न खण्डा अखंडा अखण्डाखण्डा संपद्यमाना खण्डीकृता = शकलीकृता मनसा भवतीति मनोभवस्तस्य मनोभवस्य = कामदेवस्य ज्या = मौर्वा इव =यथा शुशुमे = शोभतेस्म ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy