SearchBrowseAboutContactDonate
Page Preview
Page 1215
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः ३४१ मोती आदि रत्न जड़े हों, तथा खूब गोरे स्तनों पर मोतियों के हार लटक रहे हों, और जिसका महीन कपड़ा सांस से उड़ रहा हो। अर्थात् सांस से उड़ने वाले सूक्ष्मवस्त्र पहने हुई वह प्रिया हो ॥ ४३ ॥ अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते । आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुति हैमवतीं ससर्ज ।। ४४ ॥ अगस्त्यः चिह्नं यस्य तस्मादयनान्मार्गाद्दक्षिणायनाद्भास्वति समीपं संनिवृत्ते सति। उत्तरा दिक् । आनन्दशीतां बाष्पवृष्टिमिव । हैमवती हिमवत्संबन्धिनी हिमस्रति हिमनिष्यन्दं ससर्ज। अत्र प्रोषितप्रियासमागमसमाधिगम्यते ॥ अन्वयः-अगस्त्यचिह्नात् अयनात् भास्वति समीपं सन्निवृत्ते सति, उत्तरा दिक् आनन्दशीतां बाष्पवृष्टिम् इव हैमवती हिमति ससर्ज । व्याख्या-अगं=विन्ध्यं स्त्यायति = स्तभ्नोति, इति अगस्त्यः = कुम्भसंभवः चिह्न = लक्ष्म यस्य तत् तस्मात् अगस्त्यचिह्नात् अयनात् = मार्गात् , दक्षिणायनादित्यर्थः । भासः सन्त्यस्य असौ भास्वान् तस्मिन् भास्वति सूर्ये समीपं = सन्निकटे सन्निवृत्ते=परावृत्ते सति उत् = ऊर्ध्व तरन्ति यस्यां सा उत्तरा=उदीची दिक् = दिशा आनन्देन = हर्षेण शीता - शीतला ताम् आनन्दशीतां बाष्पाणाम् =अश्रूणां वृष्टिः=वर्षणं तां बाष्पवृष्टिम् इव = यथा हिमवतः इयं हैमवती तां हैमवती = हिमालयसंबन्धिनीं हिमस्य = तुषारस्य स्रुतिः=क्षरणं तां हिमस्रुति ससर्ज=विसृष्टवती। समासः--अगस्त्यः चिह्न यस्य तत् , तस्मात् अगस्त्यचिह्नात् । आनन्देन शीता ताम् आनन्दशीताम् । बाष्पाणां वृष्टिरतां बाष्पवृष्टिम् । हिमस्य स्रुतिस्तां हिमस्रुतिम् । हिन्दी-गर्मी में जो बरफ बहने लगा, वह ऐसा प्रतीत हो रहा था, मानो, अगस्त्यमुनि से चिह्नित मार्ग से ( दक्षिण दिशा से ) भगवान् भास्कर के अपने पास लौट आने पर उत्तर दिशा ने आनन्द से शीतल आसुओं की वर्षा के समान हिमालय से बरफ को बहा दिया हो। यहाँ प्रोषितभर्तृका के समागम की अभिव्यक्ति हो रही है ॥ ४४ ॥ प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी । उभौ विरोधक्रियया विमिन्नौ जायापतो सानुशयाविवास्ताम् ॥ ४५ ॥ अतिमात्रं प्रवृद्धतापो दिवसः। अत्यर्थमेवानल्पं तन्वो कृशा क्षणदा चेत्येतावुभौ । विरोधक्रियया प्रणयकलहादिना विरोधाचरणेन विभिन्नौ सानुशयौ सानुतापौ जायापती दंपती इव आस्ताम् । तयोरपि तापकायसंभवात्तत्सदृशावभूतामित्यर्थः ॥ अन्वयः-अतिमात्रं प्रवृद्धतापः दिवसः अत्यर्थम् एव तन्वी क्षणदा च इति उभौ विरोधक्रियया विभिन्नौ सानुशयौ जायापती इव आस्ताम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy