SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ ३२६ रघुवंशे बलिक्रियावर्जितसैकतानि स्नानीय संसर्गमनानुवन्ति । उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ २१ ॥ 'बलि: पूजोपहारः स्यात्' इति शाश्वतः । बलिक्रियावर्जितानि सैकतानि येषां तानि । स्नानीयानि स्नानसाधनानि चूर्णादीनि । 'कृत्यल्युटो बहुलम्' इति करणेऽनीयप्रत्ययः । स्नानीयसंसर्गमाप्नुवन्ति सरयूजलानि शून्यानि रिक्तान्युपान्तेषु वानीरगृहाणि येषां तानि च दृष्ट्वा दूये परितप्ये ॥ अन्वयः --बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गम् अनाप्नुवन्ति, सरयूजलानि, शून्यानि उपान्तवानीरगृहाणि दृष्ट्वा ( अहं ) दूये । व्याख्या—बलीनां = पूजोपहाराणां क्रिया करणं तया वर्जितानि = रहितानि सैकतानि = सिकतामयानि येषां तानि बलिक्रियावर्जित सैकतानि " सैकतं सिकतामयम्" इत्यमरः । स्नान्ति एभिः स्नानीयानि = स्नानोपयुक्तानि चूर्णादीनि तेषां संसर्गः = सम्पर्कस्तं स्नानीयसंसर्गम् अनाप्नुवन्ति = अप्राप्नुवन्ति सरय्वाः = नद्याः जलानि = सलिलानि, इति सरयूजलानि, शून्यानि = रिक्तानि, वानीराणां = वेतसानां गृहाणि सद्मानि, वानीरगृहाणि, उपान्तेषु = प्रान्तभागेषु वानीरगृहाणि येषां तानि उपान्तवानीरगृहाणि च दृष्ट्वा = अवलोक्य अहं दूये = परितप्ये । - समासः—बलीनां क्रिया बलिक्रिया, तया वर्जितानि सैकतानि येषां तानि बलिक्रियावर्जितसैकतानि। स्नानीयानां संसर्गः स्नानीयसंसर्गस्तं स्नानीयसंसर्गम् । उपान्तेषु वानराणां गृहाणि येषां तानि, उपान्तवानीरगृहाणि । सरखा: जलानि सरयूजलानि तानि । हिन्दी - सरयू नदी के उन जलों को देखकर मैं संतप्त हो रही हूँ जिनके बालुवाले ट ( घाट ) देवताओं को दी जानेवाली, बलि ( पूजा भेंट ) की क्रियाओं से रहित हैं ( उनमें अब भेंट पूजा नहीं होती है) और नहाने के चूर्ण ( अंगराग ) के साथ उनका सम्पर्क भी अब नहीं होता है । तथा किनारे, किनारे पर बने वेतों के घर भी अब सूने पड़े हैं ॥ २१ ॥ तदर्हसीमां वसतिं विसृज्य मामभ्युपैतुं कुलराजधानीम् । हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥ २२ ॥ तत्तस्मादिमां वसतिं कुशावतीं विसृज्य कुलराजधानीमयोध्यां मामभ्युपैतुमर्हसि । कथमिव । ते गुरुः पिता रामस्तां प्रसिद्धां कारणवशान्मानुषीं तनुं मानुषमूर्तिं हित्वा परमात्ममूर्ति यथा विष्णुमूर्तिमिव ॥ अन्वयः–तत् इमां वसतिं विसृज्य कुलराजधानीं तां माम् अभ्युपैतुम् अर्हसि कथमिवते गुरुः तां कारणमानुषीं तनुं हित्वा परमात्ममूर्तिम् यथा । व्याख्या—तत् = तस्मात् इमां वसतिं = कुशावतीं नगरीं विसृज्य = परित्यज्य राज्ञा धीयतेऽस्यामिति राजधानी कुलस्य = वंशस्य राजधानी तां कुलराजधानीं = प्रधाननगरीं तां=
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy