SearchBrowseAboutContactDonate
Page Preview
Page 1186
Loading...
Download File
Download File
Page Text
________________ ३१२ रघुवंशे ते सेतुवार्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यः । अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः । २ ॥ सेतुर्जलबन्धः । वार्ता कृषिगोरक्षणादिः। 'वार्ता कृष्याद्युदन्तयोः' इति विश्वः । गजबन्ध आकरेभ्यो गजग्रहणम् । ते मुख्यं प्रधानं येषां तैरवन्ध्यैः सफलैः कर्मभिरभ्युच्छ्रिताः। अतिसमों अपीत्यर्थः । ते कुशादयः । प्रविभज्यन्त इति प्रविभागाः । अन्योन्यदेशप्रविभागानां या सीमा ताम् । वेलां समुद्रा इव । न व्यतीयु तिचक्रमुः। अत्र कामन्दकः--'कृषिर्वणिक्पथो दुर्ग सेतुः कुञ्जरबन्धनम् । खन्याकरधनादानं शन्यानां च निवेशनम् ॥ अष्टवर्गमिमं साधुः स्वयं वृद्धोऽपि वर्धयेत् ॥' इति ॥ अन्वयः-सेतुवार्तागजबन्धमुख्यैः अवन्ध्यैः कर्मभिः अभ्युच्छ्रिताः ते अन्योन्यदेशप्रविभागसीमां वेलां समुद्राः इव न व्यतीयुः । __ व्याख्या-वध्यतेऽरिमन्नितिबन्धः। गजरय = हरितनः बन्धः = आलिः इति गजबन्धः । सेतुः = जलबन्धश्च वार्ता = कृषिगोरक्षादिश्च गजबन्धः = आकरात् गजग्रहणञ्चेति सेतुवार्तागजबन्धाः, मुख्यं = प्रधानं येषां ते सेतुवार्तागजबन्धमुख्या स्तैः सेतुवार्तागजबन्धमुख्यैः न वन्ध्याः अवन्ध्यास्तैः अवन्ध्यैः = सफलैः कर्मभिः = कार्यः उच्छ्रिताः = उन्नताः प्रवृद्धाः, अतीवसमर्था अपि ते = कुशादयो भ्रातरः प्रविभज्यन्ते, इति प्रविभागाः, अन्योन्यस्य = परस्परस्य देशाः = प्रदेशाः-राज्यमित्यर्थः। तेषां प्रविभागाः= अंशाः तेषां सीमा = वेला ताम् अन्योन्यदेशप्रविभागसीमां वेलां = तटं मर्यादामित्यर्थः। समुद्राः सागराः इव न व्यतीयुः = नातिचक्रमुः। “वेला काले च सीमायामब्धेः कूलविकारयोः ।" इति मेदिनी। समासः-सेतुश्चवार्ता च गजबन्धश्चेति सेतुवार्तागजबन्धाः, ते मुख्यं येषां ते तैः सेतुवार्ता गजबन्धमुख्यैः। अन्योन्यस्य देशः अन्योन्यदेशस्तस्य प्रविभागा इति अन्योन्यदेशपविभागास्तेषां सोमा ताम् अन्योन्यदेशप्रविभागसीमाम् । न वन्ध्याः अवन्ध्या स्तैः अवन्ध्यैः । हिन्दी-नदियों के पुल बाँधना, खेती, गोरक्षा, व्यापार करना और हाथियों को पकड़ना ( जंगलों में से बाँधकर लाना ) आदि प्रधान कामों में वे आठों भाई बड़े ही चतुर थे ( समर्थ थे ) फिर भी जैसे समुद्र अपनो वेला तट का अतिक्रमण नहीं करता, वैसे ही उन्होंने आपस में एक-दूसरे के राज्य की सीमा का उल्लंघन नहीं किया ॥ २ ॥ चतुर्भुजांशप्रमवः स तेषां दानप्रवृत्तेरनुपारतानाम् । सुरद्विपानामिव सामयोनिर्मिन्नोऽष्टधा विप्रससार वंशः ॥ ३ ॥ चतुर्भुजो विष्णुः। तस्यांशा रामादयः। ते प्रभवाः कारणानि यस्य स तथोक्तः। दानं त्यागो मदश्च । 'दानं गजमदे त्यागे' इति विश्वः । प्रवृत्तिापारः प्रवाहश्च । दानप्रवृत्तेरनुपारतानां तेषां कुशलवादीनां स वंशः। सामयोनिः सामवेदप्रभवो दानप्रवृतेरनुपारतानां सुरद्विपानां दिग्गजानां वंश इव अष्टधा भिन्नः सन् । विप्रससार विस्तृतोऽभूत्। सामयोनिरित्यत्र
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy