SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ रघुवंशे इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये श्रीरामस्वर्गारोहणो नाम पंचदशः सर्गः ॥ अन्वयः-विष्वक्सेनः एवं सुराणां दशमुखशिरश्छेदकार्य निर्वयं, लंकानाथं पवनतनयं च उभयं कोर्तिस्तम्भद्वयम् इव दक्षिणे गिरौ च उत्तरे गिरौ च स्थापयित्वा सर्वलोकप्रतिष्ठा स्वतनुम् अविशत् ॥ व्याख्या--विषुशब्दः निपातः, नानार्थवाची, विषु = नाना अंचति, या सा विषूची सेना यस्य स विष्वक्सेनः- जनार्दनः, रामः एवं = पूर्वोक्तप्रकारेण सुराणां = देवानां दश मुखानि = आननानियस्य स दशमुखः = रावणस्तस्य शिरसां = मस्तकानां छेदः = कर्तनम् एव कार्य = प्रयोजनमिति दशमुखशिरश्छेदकार्य तत् निर्वयं =सम्पाद्य, कृत्वा इत्यर्थः । लाक्यते सुखमस्यां सा लंका=राक्षसपुरी तस्याः नाथः = स्वामी, इति लंकानाथस्तं लंकानाथं = विभीषणमित्यर्थः । पुनातीति पवनः। पवनस्य = वायोः तनयः= पुत्र स्तं पवनतनयं हनुमन्तमित्यर्थः । च उभयं स्तम्भयोः = यूपयोः द्वयमिति स्तम्भवयं कीतः = यशसः स्तम्भद्वयमिति कीर्तिस्तम्भद्वयं द्वौ कोतिस्तम्भौ, इत्यर्थः। इव = यथा दक्षिणे गिरौ = पर्वते, त्रिकूटे च, उत्तरे गिरौ हिमालये च च स्थापयित्वा संस्थाप्य सर्वे च ते लोकाः सर्वलोकाः, सर्वलोकानां =सर्वभुवनानां प्रतिष्ठा = आश्रयभूता तां सर्वलोकप्रतिष्ठां स्वस्य = निजस्य तनुः = मूर्तिः तां स्वतनुं = विराशरीरम् अविशत्=प्रविवेश । विराट्रूपोऽभवदित्यर्थः । समासः–दश मुखानि यस्य स दशमुखः, दशमुखस्य शिरांसि इति दशमुखशिरांसि, तेषा छेदः एव कार्य, तत् दशमुखशिरश्छेदकार्यम् । विषूची सेना यस्य स विष्वक्सेनः। स्वस्य तनुः स्वतनुस्ता स्वतनुम् । सर्वेषां लोकानां प्रतिष्ठा तां सर्वलोकप्रतिष्ठाम् । लंकायाः नाथः लंकानाथस्तं लंकानाथम् । पवनस्य तनयः पवनतनयस्तं पवनतनयम् । कीर्तेः स्तम्भौ कीर्तिस्तम्भौ, कीर्तिरतम्भयोः द्वयमिति कीर्तिस्तम्भद्वयं तत् । हिन्दी-इस प्रकार भगवान् विष्णु ने रावण के शिरों का काटनारूपी देवताओं के कार्य को पूर्ण करके, ( रावण का वध करके ) और अपनी कीर्ति के दो स्तम्भों के समान, दक्षिण में त्रिकूट पर्वत पर लंका के राजा विभीषण को तथा उत्तर में हिमालय पर्वत पर पवन पुत्र हनुमानजी को स्थापित करके सम्पूर्ण भुवनों का आश्रय ( विश्रामस्थल ) अपने विराट शरीर में प्रवेश कर गये अर्थात् लीन होकर विराट रूप हो गये ।। १०३ ।। इति श्री शांकरिधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनी" व्याख्यायां रघुवंशे महाकाव्ये श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ॥ १५ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy