SearchBrowseAboutContactDonate
Page Preview
Page 1163
Loading...
Download File
Download File
Page Text
________________ १९ पञ्चदशः सर्गः समासः-अनुजैः सह वर्तमानः सानुजः । हिन्दी-जानकार कुशल लोगों ने, लव तथा कुश का सुन्दर मनोहर रूप, तथा गाने की मिठास राम जी से निवेदन किया। अर्थात् उनको बताई। तब अपने भाइयों के साथ राम ने आश्चर्य के साथ लव-कुश के रूप एवं गाने की मधुरता को देखा और सुना ॥ ६५ ॥ तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ । हिमनिष्यन्दिनी प्रातनिर्वातेव वनस्थली ॥ ६६ ॥ तयोर्गीतश्रवणे एकाग्रासक्ताश्रुमुखी । आनन्दादिति भावः । संसत्सभा। प्रातहिंमनियन्दिनी निर्वाता वातरहिता वनस्थलीव । बभौ शुशुभे । आनन्दपारवश्यान्निष्पन्दमास्त इत्यर्थः ॥ अन्वयः-तद्गीतश्रवणकाया अश्रुमुखी संसद् प्रातः हिमनिष्यन्दिनी निर्वाता वनस्थली इव बभौ। ___ व्याख्या-तयोः= लवकुशयोः गीतं = गानं तस्य श्रवणम् = आकर्णनम् इति तद्गीतश्रवणं, तद्गीतश्रवणे एकाग्रा = एकताना, इति तद्गीतश्रवणकाया। एकम् , एकस्मिन् अग्रमस्याः सा एकाग्रा। एकतानोऽनन्यवृत्तिरेका|कायनावपीत्यमरः। अश्रूणि = अनपूर्णानि मुखानि यास्यां सा अश्रुमुखी आनन्दातिरेकादिति भावः। संसीदन्त्यस्यां सा संसद् = सभा, प्रातः = प्रातःकाले हिम = तुषारं नितरां स्पन्दते = प्रस्रवति तच्छीला हिमनिष्यन्दिनी निर्गतः वातः यस्याः सा निर्वाता = वायुरहिता वनस्य = अरण्यस्य स्थली = अकृत्रिमा भूमिः इति वनस्थलीकाननस्थलम् इव = यथा बभौ=शुशुभे । राज्यसभा आनन्दाश्चर्यमग्नत्वात् निष्पन्दासंजाता, इत्यर्थः । समासः-तयोः गीतं तद्गीतं तस्य श्रवणं तस्मिन् एकाग्रा इति तद्गीतश्रवणैकाग्रा। अश्रूणि मुखानि यस्याः सा अश्रुमुखा । हिमस्य निष्यन्दिनी इति हिमनिष्यन्दिनी । निर्गतः वातः यस्याः सा निर्वाता। वनस्य स्थली वनस्थली। हिन्दी-लव कुश के गीत को सुनने में ध्यानमग्न तथा “सीता के स्मरण से" जिसको आँखों से आँसू बह रहे हैं। ऐसी वह सारी सभा, प्रातःकाल की उस वनस्थली के समान सुन्दर दीख रही थी जिसके स्थिर खड़े वृक्षों से ओस की बूंदें टपटप गिर रहो हो ॥ ६६ ॥ वयोवेषविसंवादि रामस्य च तयोस्तदा । जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत ॥ ६७ ॥ जनता जनानां समूहः। 'ग्रामजनबन्धुसहायेभ्यस्तल्' इति तत्प्रत्ययः। वयोवेषाभ्यामेव विसंवादि विलक्षणं तदा तयोः कुशलत्रयो रामस्य च सादृश्यं प्रेक्ष्य । नास्त्यक्षिकापं यस्मिन्कर्मणि तद्यथा तथा। नअर्थस्य नशब्दस्य बहुव्रीहिः । व्यतिष्ठतातिष्ठत् । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । विस्मयादनिमिषमद्राक्षीदित्यर्थः ॥ अन्वयः-जनता वयोवेषविसम्बादि तदा तयोः रामस्य च सादृश्यं प्रेक्ष्य नाक्षिकम्पं यथास्यात्तथा व्यतिष्ठत ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy