SearchBrowseAboutContactDonate
Page Preview
Page 1160
Loading...
Download File
Download File
Page Text
________________ रघुवंशे निङादेशः । पत्यू रामस्य हिरण्मयी सौवर्णी । 'दाण्डिनायन-' इत्यादिसूत्रेण निपातः । सा निजैव जाया पत्न्यासीत् । कविवाक्यमेतत् ॥ अन्वयः-वैदेह्याः त्यागः अपि श्लाव्यः एव, 'कुतः' यस्मात् प्राग्वंशवासिनः अनन्यजानेः पत्युः हिरण्मयी सा एव जाया आसीत् । व्याख्या--विदेहस्य राज्ञोऽपत्यं स्त्री वैदेही = सीता तस्याः वैदेयाः त्यागः = वने विसर्जनम् अपि श्लाघयितुं योग्यः श्लाघ्यः = वर्णनयोग्यः एव - निश्चयेन कुतः यस्मात् = कारणात् प्राग्वंशे = हविःशालापूर्वभागस्थितगेहे वसति, इति प्राग्वंशवासी तस्य प्राग्वंशवासिनः "प्राग्वंशः प्राग्हविर्गेहात्" इत्यमरः। न विद्यते अन्या जाया = पत्नी यस्य स तस्य अनन्यजानेः पत्युः =रामस्य हिरण्यस्य विकारः हिरण्मयी=सौवर्णो, सा एव =सौवर्णों एव, सुवर्णनिर्मिता सीता प्रतिकृतिरेवेत्यर्थः। जाया = पत्नी आसीत् = जाता। न तु यज्ञे अपरा पत्नी इत्यर्थः । सपत्नीकस्यैव यशाधिकारात् । इयं महाकवेरुक्तिः । समासः-प्राग्वंशे वासी प्राग्वंशवासी तस्य प्राग्वंशवासिनः। नास्ति अन्या जाया यस्य स तस्य अनन्यजानेः। हिन्दी-सीता जी का त्यागना भी प्रशंसा के योग्य ही है। इसलिये कि पूर्व दिशा की ओर यजमान के परिवार तथा मित्रों के बैठने के योग्य स्थान में निवास करने वाले, तथा दूसरी पत्नी न करने वाले ( दूसरा विवाह न करने वाले ) पति राम की सोने की बनी सीता जी की मूर्ति ही पत्नी थी। विशेष—यज्ञ में यजमान को सपत्नीक होना चाहिये। अतः सीता जी की सोने की मूर्ति बनाकर यज्ञ में साथ बैठाई थी। राम जी त्यागने पर भी सीता को ही पत्नी मानते हैं। यह बात परम श्लाघनीय है। प्राग्वंश-का अर्थ है हवि शाला के पूर्व दिशा में बना स्थान जिसमें यजमान के परिवार वाले, तथा मित्र बैठते हैं। दूसरा अर्थ, पुराने खम्भेवाली यज्ञशाला, इसमें निवास करनेवाले रामचन्द्र जी थे यश के समय ॥ ६१ ॥ विधेरधिकसंभारस्ततः प्रववृते मखः । आसन्यत्र क्रियाविना राक्षसा एव रक्षिणः ॥ ६२ ॥ ___ ततो विधेः शास्त्रादधिकसंभारोऽतिरिच्यमानपरिकरो मखः प्रववृते प्रवृत्तः। यत्र मखे। विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः। मखे यज्ञे । 'घञर्थे कविधानम्' इति कः । क्रियाविना अनुष्ठानविघातका राक्षसा एव रक्षिणो रक्षका आसन् । अन्वयः–ततः विधेः अधिकसंभारः मखः प्रववृते। यत्र क्रियाविघ्नाः राक्षसाः एव रक्षिणः आसन् । व्याख्या-ततः= अनन्तरं विधानं विधिः तस्माविधेः = शास्त्रात् अधिकः=अतिरिच्यमानः, विशेष इत्यर्थः सम्भारः = यज्ञोपकरणं, सामग्रीतियावत् यस्मिन् सः अधिकसम्भारः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy