SearchBrowseAboutContactDonate
Page Preview
Page 1147
Loading...
Download File
Download File
Page Text
________________ १८ पञ्चदशः सर्गः — यस्मिन् स तं मैथिलीतनयोद्गीतनिःस्पन्दमृगम् वाल्मीकेः = महर्षेः आश्रमं = तपोवनम् भूय: : पुनरपि तपसां = तपस्यानां व्ययः = हानिः इति तपोव्ययः । मम संविधानसम्पादनार्थम् तपसो हानिः मा भूत् = न भवतु इति = हेतोः अत्यगात् = अतिक्रम्यगतवान् । समासः - मैथिल्याः तनयौ मैथिलीतनयौः तयोः उद्गीतमिति मैथिलीतनयोद्गीतं तेन निःस्पन्दाः मृगाः यस्मिन् स तं मैथिलीतनयोद्गीतनिःस्पन्दमृगम् । तपसां व्ययः तपोव्ययः । २७३ हिन्दी - शत्रुघ्न जी, सीता जी के पुत्र लव कुश के गीत सुनने से निश्चल हरिण वाले वाल्मीकि जी के आश्रम को छोड़कर अयोध्या गये । इसलिये कि "आश्रम में मेरे जाने पर " मेरे सत्कारार्थ महर्षि अपनी सिद्धि प्रभाव से सामग्री जुटायेंगे अतः व्यर्थ ही तप की हानि होगी ॥ ३७ ॥ वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् । वस्य वात्परैरीक्षितोऽत्यन्तगौरवम् ॥ ३८ ॥ वशी स लवणस्य वधाद्धेतोः पौरैः पौरजनैरत्यन्तं गौरवं यस्मिन्कर्मणि तत्तथेक्षितः सन् । रथ्यासंस्कारैस्तोरणादिभिः शोभते या तामयोध्यां विवेश च ॥ अन्वयः -वशी लवणस्य वधात् पौरैः अत्यन्तगौरवं यथास्यात्तथा ईक्षितः सन् रथ्यासंस्कारशोभिनीम् अयोध्यां च विवेश । व्याख्या -वशोऽस्यास्तीति वशी = जितेन्द्रियः शत्रुघ्नः लवणस्य = राक्षसस्य वधात् = मारणात् हेतोः पुरे भवाः पौरा स्तैः पौरैः = नागरिकजनैः अत्यन्तम् = अधिकं गौरवं = सम्मानं यस्मिन् कर्मणि तत् अत्यन्तगौरवम् यथास्यात्तथा ईक्षितः = दृष्टः सन् रथं वहतीति रथ्या, रथ्यायाः = प्रतोल्याः संस्कारः, संमार्जनतोरणादिभिः परिस्कारः, तेन शोभते = शालते या सा रथ्यासंस्कारशोमिनी तां रथ्यासंस्कारशोभिनीम् अयोध्यां = साकेतं विवेश = प्रविष्टः च । समासः - रथ्यायाः संस्कार: रथ्यासंस्कारस्तेन शोभिनी तां रथ्यासंस्कारशोभिनीम् । अत्यन्तं गौरवं यस्मिन् कर्मणि तत् अत्यन्तगौरवम् । हिन्दी - “ और वहाँ से चलकर " जितेन्द्रिय शत्रुघ्न, नागरिक जनों से बड़े ही संमानपूर्वक देखे जाते होकर उस अयोध्या नगरी में पहुँच गये। जिसकी गलियों को सफाई तथा बन्दरवार बाँध कर खूब सजाया गया था, इसलिये कि वे लवणासुर को मारकर लौटे थे । विजयीवीर का स्वागत-संमान बड़े उत्साह से मनाते हो हैं ॥ ३८ ॥ स ददर्श समामध्ये सभासद्भिरुपस्थितम् । रामं सीतापरित्यागादसामान्यपतिं भुवः ॥ ३९ ॥ स शत्रुघ्नः सभामध्ये सभासद्भिः सभ्यैरुपस्थितं सेवितं सीतापरित्यागाद्भुवोऽसामान्यपतिमसाधारणपतिं रामं ददर्श ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy