SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २६५ सः शत्रुर्लवणः। काणेन वैष्णवेन पत्त्रणा बाणेन। उक्तं च रामायणे–'एवमेष प्रजनितो विष्णोस्तेजोमयः शरः' इति । 'विष्णुर्नारायणः कृष्णः' इत्यमरः। भिन्नहृदयः पतन्भुवः कम्पमानिनायानीतवान् । देहभारादित्यर्थः । आश्रमवासिनां कम्पं जहार। तन्नाशादकुतोभया बभूवुरित्यर्थः ॥ __ अन्वयः–सः शत्रुः कानुन पत्रिणा भिन्नहृदयः पतन् भुवः कम्पम् आनिनाय, आश्रमवासिनां कम्पं जहार । व्याख्या-सः= लवणासुरः शत्रुः = वैरी कृष्णस्य =विष्णोः अयमिति कार्णस्तेन कार्णोण = वैष्णवेन पत्राणि पक्षाः सन्त्यस्य स पत्त्री तेन पत्रिणा = बाणेन "विष्णु नारायणः कृष्णः” इत्यमरः। भिन्नं = विदीर्ण हृदयं वक्षः यस्य स भिन्नहृदयः पतन् भूमौ इत्यर्थः भुवः= पृथिव्याः कम्पं = वेपथुम् आनिनाय=आनीतवान् । स्वशरीरभारात् भुवं चकम्पे इत्यर्थः । "अथ वेपथुः कम्पः" इत्यमरः । आश्रमे वसन्ति तच्छीलाः इति आश्रमवासिनस्तेषाम् आश्रमवासिनां तपस्विनां कम्पं =भयजनितं जहार अपहृतवान् । लवणासुरविनाशेन तपस्विनो निर्भयाः संजाता इत्यर्थः। समासः-भिन्नं हृदयं यस्य स भिन्नहृदयः । आश्रमस्यवासिनः आश्रमवासिनस्तेषाम् आश्रमवासिनाम् । हिन्दी-विष्णु के तेज से निर्मित शत्रुघ्न के बाण से लवणासुर का हृदय फट गया। तब जमीन पर गिरते हुए उस राक्षस ने पृथिवी को कँपा दिया। अर्थात् उसके गिरने से जमीन हिल उठी। और आश्रम के निवासियों के कंप ( भय ) को भगा दिया। अर्थात् तपस्विजन अब निर्भय होकर रहने लगे। _ विशेष-रामायण में लिखा है कि यह बाण विष्णु के तेज से बना था। और विष्णु कृष्ण एक ही है । अतः काणेंन कहा है ॥ २४ ॥ वयसां पङ्क्तयः पेतुर्हतस्योपरि विद्विषः । तत्प्रतिद्वन्द्विनो मूनि दिव्याः कुसुमवृष्टयः ॥ २५ ॥ हतस्य। विद्वेष्टीति विद्विट् तस्य विद्विषो राक्षसस्योपरि वयसां पक्षिणां पङ्क्तयः पेतुः । तत्प्रतिद्वन्द्विनः शत्रुघ्नस्य मूर्ध्नि तु दिव्याः कुसुमवृष्टयः पेतुः ॥ अन्वयः-हतस्य विद्वषः उपरि वयसां पक्तयः पेतुः, तत्प्रतिद्वन्दिनः मूनि दिव्याः कुसुमवृष्टयः पेतुः। व्याख्या-हतस्य =मृतस्य विशेषेण द्वेष्टीति विद्वट् तस्य विद्विषः=शत्रोः लवणासुरस्य उपरि=उपरिष्टात् वयसां = पक्षिणां पंक्तयः = श्रेणयः समूहाइत्यर्थः । पेतुः=निपेतुः। “वयः पक्षिणि बाल्यादौ यौवने च नपुंस्कम्" इत्यमरः । द्वन्दः द्वेषोऽस्यास्तीति द्वन्दी, प्रतिरूपो द्वन्दी प्रतिद्वन्दी, तस्य =लवणस्य प्रतिद्वन्दी शत्रुस्तस्य तत्प्रतिद्वन्दिनः= शत्रुघ्नस्य मूनि मस्तके दिवि भवाः दिव्याः= स्वर्गीयाः कुसुमाना=पुष्पाणां वृष्टयः= वर्षणानि पेतुः = पतिताः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy